________________
चन्द्राप्तिप्रकाशिका टीका
मङ्गलाचरणं शास्त्रप्रतिज्ञा ३ तस्य सललितं लालियसहितं मनोजलीलासहितत्वात् एतादृशं यत् गतं गमनं तद्वत् विक्रमः पदन्यासो यस्य स तथा मदोन्मत्तगजेन्द्रवत् मनोहारिगतियुक्त इत्यर्थः, पुनः कीदृशो वीरः ? इत्याह-'भयवं' भगवान्-भगः ऐश्चर्यादिरूपः, उक्तश्च
ऐश्वर्यस्य समग्रस्य, रूपस्य यशसा श्रियः। धर्मस्याय प्रयत्नस्य, पण्णां भग इतीङ्गना ॥१॥
सोऽस्यास्तीति भगवान् । भगवच्छब्दस्य विस्तृतव्याख्या आचारागसूत्रे प्रथमश्रुतस्कन्धस्य मत्कृतायामाचारचिन्तामणिटीकायां विलोकनीया । अनेन वागतिशयः पूजातिशयश्च सूध्यते । पूजाऽत्र सुरासुरनरनिकरकृततीर्थकरादरसत्कारलक्षणा विज्ञातव्येति । आभ्यां द्वाभ्यामतिशयाभ्यां ज्ञानातिशयो लभ्यते, जानातिशये सति अपायापगमातिशयस्यावश्यम्भावात् अपायापगमातिशयोऽपि सिध्यति । तीर्थकराणां अपायाऽपगम-पूजा-वाणी-ज्ञानातिशयभेदात् चत्वारो मूलातिशया भवन्ति । एते चत्वारोऽतिशयाः-'अवढियकेसमंसुरोमनहे' अवस्थितकेशश्मश्रुरोमनखः, इत्यादिचतुत्रिंशदतिशयानामुपलक्षणम्, उपरोक्तमूलातिशयचतुष्टयमन्तरेण शेषाणां चतुत्रिंशदतिशयानामसम्भवात् , ततश्च चतुरिंशदतिशयोपेतो भगवान् वीरो जयतीति पूर्वेण सम्बन्धः ॥ गा० १॥
पूर्व वर्तमानतीर्थकर श्रीवर्धमानस्वामिनं प्रणम्य साम्प्रतं सामान्येन पञ्चपरमेष्ठिनां नमस्कारमाह-'नमिऊण' इत्यादि ।
मूलम् नमिऊण असुरसुरगरुलभुयगपखिदिए गयकिलेसे।
अरिहे सिद्धायरिए, उवज्झाए सव्वसाहू य ॥२॥ छाया-नत्वा असुरसुरगरुडभुजगपरिवन्दितान् गतक्लेशान् ।
महंतः सिद्धाचार्यान् , उपाध्यायान् सर्वसाधूश्य ॥२॥ व्याख्या-'असुरसुरगरुलभुयगपरिदिए' असुरसुरगरुडभुजगपरिवन्दितान् तत्रअसुरा-असुरकुमारा, सुराः-वैमानिकदेवाः गरुडाः सुवर्णकुमारदेवाः, भुजगाः नागकुमारदेवाः उपलक्षणात् शेषाणां-विद्युत्कुमारादीनामपि ग्रहणं भवति, तैः परिवन्दितान् नमस्कृतान् 'गयकिलेसे' गतक्लेशान् अपगतजन्ममरणादिक्लेशान् एतादृशान् अर्हतः तीर्थकृतः, तथा 'सिद्धायरिए। सिद्धाचार्यान् सिद्धान् चायाँश्च, तत्र सिद्धान् व्यपगतसकलकर्ममलत्वेन सिद्धिगतिनामधेयं स्थान प्राप्तान् , आचार्यान् स्वयं पञ्चविधज्ञानाद्याचारं परिपालयन्तः सन्तः परान् प्रति तदुपदेश