________________
HAvahaMNAM
चन्द्रप्राप्तिसूत्रे दानतत्परान् 'उवशाए' उपाध्यायान् स्वयं द्वादशामाध्ययनं कुर्वन्तः परान् तदध्ययनमानसान् कारयन्तस्तान 'सन्चसाहू य' सर्वसाधूध ज्ञानक्रियातो मोक्षसाधनप्रवणान् अर्द्धतृतीयद्वीपस्थितान् मुनीन् 'नमिजण' नया-नमस्कृत्य, किम् ! इत्याह
मूलस्--फुडवियडपागडत्थं, वोच्छं पुवसुयसारनीसंदें।
सुहुमगणिणोवइ8, जोइसगणरायपण्णत्तिं ॥३॥
छाया-स्फुटविकट प्रकटार्था', घपये पूर्वश्रुतसारनिस्यन्द ।
सूक्ष्मगणिनोपदिधां, ज्योतिर्गणराजप्राप्तिम् ॥३॥ ज्याख्या---'फुडवियडपागडत्य' स्फुटविकटप्रकटाम्-स्फुटः स्पष्टो यथावस्थितो विगलबोधविषयत्वात् , विकट:-गम्भीरार्थः कुशामबुद्धिगम्यत्वात् , प्रकटः साक्षादक्षरेष्वेव परिस्फुरणशीलः, एतादृशोऽर्थों यस्यां सा तथा ताम् 'पुच्चसुयसारनीसंद' पूर्वश्रुतसारनिस्यन्दम्पूर्वगतं श्रुतं पूर्वश्रुतं तस्य सारः सारभूतं निस्यन्दं सारस्यापि सारभूताम् , अनेन-इयं चन्द्रप्रज्ञप्तिः पूर्षेभ्य उद्धृतेति बन्यते । ननु इयं च न पूर्वाणि स्वयमधीय तत उद्धृता किन्तु गुरूपदेशानुसारतः, इत्यत्राह-'मुहुम' इत्यादि 'मुहुमगणिणोवईट' सूक्ष्मगणिनोपदिष्टाम् , सूक्ष्म इति सूक्ष्मबुद्धियुको यो गणी-आचार्यः, तेनोपदिष्टाम् , गुरुणा पूर्वाणि यथान्याख्यातानि तान्यधीत्य तेभ्य उद्धृतामिति भावः, 'जोइसगणरायपण्णत्ति' ज्योतिर्गणराजप्रज्ञप्तिम् , तत्र ज्योतीषिप्रहनक्षत्रतारारूपाणि, तेषां गणः-सगृहस्तस्य राजा चन्द्रः, तस्य प्रज्ञप्तिम्-प्रज्ञाप्यते प्ररूप्यतेऽनयेति प्रज्ञप्तिः तत्त्वरूपप्रतिपादिका वचनपद्धतिः, ताम् 'वोच्छं' वक्ष्ये प्रतिपादयिष्यामि प्ररूपयिष्यामीत्यर्थः ॥३॥
पूर्वेषु चनादिवतन्यता गौतमप्रश्नभगवन्निर्वचनरूपैव वर्तते तत इयं चन्द्रप्रज्ञप्तिरपि तथैव प्ररूपणीयेति प्रथम गौतमप्रश्नस्योपक्षेपं निरूपयति --'नामेण' इत्यादि ।
मूलम्-नामेण इंदभूइ-त्तिगायमो वंदिऊण तिविहेणं ।
पुच्छइ जिणवस्वसह, जोइसरायस्स पण्णति ॥४॥
छाया-नाम्ना इन्द्रभूतिरिति गौतमो पन्दित्वा त्रिविधेन ।
पूच्छति जिनघरवृषभ, ज्योतीराजस्य प्राप्तिम् ॥४॥