________________
चन्द्रप्रज्ञप्तिसूत्रे
साक्षात्प्रणामरूपः स्तवः कर्तुं शक्यते, इति कथ्यते तन्मिथ्यात्वविलसितम् , स्थापनायां तन्निस्सारत्वेन तत्र तीर्थकरत्वस्यासंभवात् । एतद्विपये विस्तरतो मत्कृतायामनुयोगद्वारस्यानुयोगचन्द्रिकाटीकायां विलोकनीयम् ।
गुणोत्कीर्तनरूपः स्तवश्वात्र प्रस्तूयते-'जयइ' जयति विजयवान् भवति रागादिशत्रुजेत. त्वात् , कः ! इत्याह-वीरो, वीरः श्रीमहावीरश्चरमतीर्थकर इत्यर्थः । अत्र 'जयति' इति वर्तमानप्रयोगः कथम् ! नैवात्र संप्रतिकाले भगवान् वीरो विद्यते ? इति न, तीर्थकराणां ज्ञानसत्तायाः सर्वत्र सर्वदा कालत्रयेऽपि विद्यमानत्वात् तेषां सदैव वर्तमानत्वमेवेति न किमपि शङ्कनीयम् । __अथवा रागादिशत्रवस्तु पूर्वमेव निर्मूलीकृताः किन्तु तत्फलभूतं सिद्धत्वमधाप्यप्रतिहतमेव तिष्ठति, इति सिद्धत्वफळे हेतुत्वेन उपचारात् 'जयतीत्युक्तम् । अथवा सम्प्रत्यपि भक्त्या ध्यानगोचरीभूतो ध्यातॄणां रागादिशत्रून् अपाकरोति उक्तञ्च-भत्तीइ जिणवराणं, खिप्पंति पुन्चसंचिया कम्मा । आयरियणमोकारे, विज्जा मंता य सिझंति ।।' भक्त्या जिनवराणां क्षिप्यन्ते पूर्वसंचितानि कर्माणि | आचार्यनमस्कारे विद्या मन्त्राणि च सिध्यन्ति, इति वचनात् , ततो जयतीति प्रयोगो युक्त एव । यद्वा जयति सर्वानपि सुरासुरादीन् अतिशेते धातूनामनेकार्थत्वात् , यो हि सुरासुरेभ्योऽपि स्वगुणैरतिशायी वर्तते स प्रेक्षावतां नमस्करणीयो भवत्येव गुणाधिक्यात् ततो जयतीति युक्तमेव । कोऽसौ इत्याह-वीरो-वीरः, 'शूर-वीर विक्रान्ती' इति धातोः वीरयति कषायादिशत्रन् प्रति विक्रामतीति वीरः । अस्य वीर इति नाम न यादृच्छिकं किन्तु यथावस्थितमेव परीपहोपसर्गादिनेतृत्वविषयं वीरत्वमाश्रित्य सुरैः कृत. मिदं नामानन्यसाधारणमिति । अनेन अपायापगमरूपोऽतिशयो ध्वन्यते । अथवा 'ई' गतिप्रेरणयोः' इति धातोः वि-विशेषेण ईरयति-प्रेरयति अपुनर्भावरूपेण आत्मनः सकाशात् अष्टविधकर्माणि च्यावयतीति वीरः, यद्वा ईर्षातुर्गत्यर्थकोऽपि, अतः वि-विशेषेण शीघ्रतया ईरयति गच्छति शिवमिति वीरः, अत्र भगवतोऽपायावगमातिशयप्रतिपत्तिः सूचिता सूत्रकारेणेति । किविशिष्टो वीरः ? इत्याह-'नवनलिण-कुवलय-वियसिय-सयवत्त-पत्त लदलच्छो' नवनलिन-कुवलय-विकसित-शतपत्र-प्रतलदलाक्षः, तत्र नवं-नूतनम्-अल्पकालिकं यत् नलिनम्-ईपद्रक्त कमलम् तथा कुवलयं नीलोत्पलम् , तथा विकसितं-प्रफुल्लितं शतपत्रं-सामान्यकमलं तस्य प्रतले-अस्थूले ये दले-पत्रे तद्वत् अक्षीणि नेत्रे यस्य स तथा, यस्य भगवतो नेत्रद्वयम् उपान्ते रक्ताभायुक्तत्वेन ईषद्क्तं, नीलामायुक्तत्वेन ईपन्नीलम् प्रफुल्लितत्वेन आयतम् कोमलं-मनोहारि च वर्तते इति भावः । पुनः कीदृशो वीरः ? इत्याह-'गइंदमयगलसललियगयविकमो' गजेन्द्रमदकलसललितगतविक्रमः, अत्र-'मदकल' शब्दस्य परनिपातः प्राकृतत्वात् तेन मदकलः मदेन सुन्दरः , तरुण इत्यर्थः, एतादृशो यो गजेन्द्रः गजानां मध्ये इन्द्र इव इन्द्रः शेषगजेभ्यो गुणातिशयित्वात् ,