________________
। श्रीवीतरागायनमः।
जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलालबतिविरचितया चन्द्रज्ञप्तिमकाशिकाख्यया व्याख्यया समलङ्कृतम्
श्री-चन्द्रप्रज्ञाप्तिसूत्रम्।
मङ्गलाचरणम् नम्रीभूतपुरन्दरादिमुकुट,-भाजन्मणिच्छायया,
चित्रानन्दकरी सदा भगवती यस्याङ्घ्रिलक्ष्मीः परा । सद्विज्ञान-निरन्तसिन्धुलहरी,-मग्नाः स्वकर्मक्षयं,
फुत्वाऽनन्तमुखस्य घाम भविनः प्रापुः श्रये तं जिनम् ॥१॥ विमलः केवलाऽऽलोक,-प्रभासंभारभासुरः ।
त्रिजगन्मुकुरो धीरो, वीरो विजयतेतराम् ॥२॥ श्रीसुधर्मा महावीर-लब्धरत्नोज्वलो गणी ।
निवबन्ध तदुक्ताथै, नमस्तस्मै दयालवे ॥३॥ अर्थतत्करुणालब्ध,-विवेकामृतविन्दुना ।
तन्यते घासिलालेन, 'चन्द्रज्ञप्तिमकाशिका' ॥४॥ पूज्य ईश्वरलालश्च, गणिवर्यो हि विश्रुतः ।
चन्द्रप्रज्ञप्तिवृत्तिश्च, तत्स्मृत्यर्थ विरच्यते ॥५॥ अथ सूत्रकारोऽविघ्नेन शास्त्रसमाप्त्यर्थम् इष्टसिद्धयर्थं च प्रथममिष्टदेवताप्रीत्यर्थं तत्स्तवमाह-'जयई' इत्यादि ।
मूलम्-जयइ नवनलिणकुवलय-वियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसललियगयविकमो भयवं ॥१॥ छाया-जयति नवनलिनकुवलयविकसितशतपत्रपत्रलदलाक्षः ।
घीरो गजेन्द्रमदकलसललितगतविक्रमो भगवान् ॥१॥ व्याख्या-अत्र स्तवो द्विविध:-गुणोत्कीर्तनरूपः, साक्षात्प्रणामरूपश्च । तत्र साक्षात्प्रणामरूपः स्तवः साम्प्रतकाले नैव संपद्यते, सम्प्रति तीर्थकरस्याविद्यमानत्वात् । यत् स्थापनातीर्थकरस्य