________________
चन्द्राप्ति प्रकाशिकाटीका प्रा० ७ सू० १
सूर्यवरणनिरूपणम् १८५ मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते ततः सः सूर्य स्वप्रकाशकत्वेन वरयतीति प्रोच्यते । एवमप्रेऽपि बोध्यम् । 'एगे एवमासु' एके प्रथमा एवं पूर्वोक्तप्रकारेण आहुः ॥१॥ 'एगे पुण' एके द्वितीयाः पुनः ‘एवं' एवं-वक्ष्यमाणप्रकारेण 'आहेसु' आहु. 'ता' तावत् 'मेरू णं पव्वए' मेरः खलु पर्वतः 'सूरिय' सूर्य 'वरई' वरयति, 'एगे एवमासु' एके हितोया एवं पूर्वोक्तप्रकारेण आहुः । 'एवं' अनेन प्रकारेण 'एएणं' एतेन पूर्वोक्तेन 'अभिलावेणं' अभिलापेन अग्रेऽपि आलापकाः कर्तव्याः। कियत्पर्यन्तमित्याह-'जाव' इत्यादि । 'जाव' यावत् 'वीसइमा' विंशतितमा 'पडिवत्ती' प्रतिपत्तिः भवेत् 'जाव' यावत् 'ता' पूर्ववत् 'पव्ययराए णं पव्वए' पर्वतराजः खलु पर्वतः 'मूरियं वरई' सूर्य वरयति 'एगे एवमासु' एके विंशतितमाः प्रतिपत्तिवादिनः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । अत्र मन्दरादारभ्य पर्वतराजपर्यन्तं विशतिशब्दानां व्याख्या पूर्व पञ्चमप्रामृते सूर्यस्य लेप्याप्रतिघातप्रकरणे कृतेति तत्र विलोकनीया । एता विंशतिरपिप्रतिपत्तयो मिथ्यारूपाः एकस्य मन्दरस्यैव विंशतिनामवत्वात् तदेव भगवान् स्वमतं प्रदर्शयन्नाह-'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः वयं तु 'एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः-'मंदरेवि पवुच्चई मन्दरोऽपि प्रोच्यते- एते विंशतिप्रतिपत्तिवादिनः अन्यान्य नाम माश्रित्य कथयन्ति किन्तु विंशतिनामवान् एक एव पर्वतो वर्तते नान्यः। एप एव पर्वतः मन्दर इति प्रोच्यते । तथा 'मेरू वि पवुच्चइ मेरुरपि प्रोच्यते 'एवं जाव पचयराओ वि पवुच्चई' एवं यावत् मनोरमादारभ्य विशतितमना मवान् पर्वतराजोऽपि प्रोच्यते एपां नाम्नां सार्थकत्वं पश्चमप्रामृते सविस्तर प्रदर्शितं तत्तत्र विलोकनीयम् । न केवलं मेरुरेव सूर्य वरयति किन्तु अन्येऽपि पुद्गलाः सूर्य वरयन्तीत्याह- ता जे णं' इत्यादि । 'ता' तावत् 'जेणं' ये खलु 'पोग्गला' पुग्दलाः 'सूरियस्स लेस्सं फुसंति' सूर्यस्य लेश्यां स्पृशन्ति ते णं पोग्गला' ते खलु पुगदलाः 'सूरियं वरंति' सूर्य वरयन्ति पुनश्च 'अदिहा विणं पोग्गला' अदृष्टा अपि खलु पुद्गला ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुस्थिताः सूर्येण प्रकाशिता अपि अतिसूक्ष्मत्वान्न दृष्टिस्पर्शमुपयान्ति ते अदृष्टा अपि पुद्गलाः खलु प्रागुक्तरीत्या 'सूरियं वरंति' सूर्य वरयन्ति, तेषामपि सूर्येण प्रकाश्यमानत्वात् । पुनश्च 'चरमलेस्संतरगया वि णं पोग्गला' चरमलेश्यान्तर्गता अपि सूर्यप्रकाशान्तर्वत्तिनोऽपि खलु पुद्गला 'सूरियं वरंति' सूर्य वरयन्तीति ॥सू०१॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक्रपञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहु छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
ख्यायां व्याख्यायां सप्तमं प्राभृतं समाप्तम् ॥५॥
|| श्रीरस्तु ॥
२१