________________
१६६
चन्द्रप्रक्षेप्तिसूत्रे षष्टिभागान् योजनस्य (१७२६३/ २१) तिरिय' तिर्यक् स्वविमानात् पूर्व भागेऽपरभागे च 'तति' तापयतः प्रकाशयतः । अयमाशयः-~-अघोलौकिकग्रामाः समतलमूभागाद् अधः एकसहस्रयोजनेन व्यवस्थिताः, तत्रापि सूर्यप्रकाशः प्रसरति । ततः समतलभूभागस्याध एकसहस्रयोजनपर्यन्तं, तदूर्ध्व चाष्टशत योजनानि, इत्युमयमीलनेऽष्टादशशतयोजनानि भवन्ति, तिर्यक् च स्वविमानात् पूर्वापरभागद्वये सूर्या प्रत्येकं त्रिषष्टयधिकशतद्वयोचराणि सप्तचत्वारिंशत्सहनयोजनानि, एकविंशतिं च षष्टिभागान् योजनस्य (४७२६३ २१) प्रकाशयत इति ॥सू ० ३॥ इति श्री--विश्वविख्यात-जगहल्लम-जप्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां
चतुर्थ मूलप्रामृतं समाप्तम् ॥४॥
॥ श्रीरस्तु ||
KATA