________________
चन्द्रशप्तिप्रकाशिका टीका प्रा० ४ सू० ३
तापक्षेत्रसंस्थितिनिरूपणम् १६५
दिवस परिमाणमायाति तावत् - वक्तव्यम् । तदेवाह - ' तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता 'उक्कोसिया' उत्कर्षिका 'अट्ठारसमुहुत्ता राई भव' अष्टादशमुहूर्त्ता रात्रिर्भवति, 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्त्ता दिवसो भवति, इत्यालापकपर्यन्तं सर्वं पूर्वोक्तं प्रकरणमत्र बोच्यम् । विशेषः केवलमयम् - यत् तत्र अष्टादशमुहूर्त्तो दिवसः द्वादशमुहूर्त्ता रात्रि कथिता, अत्र तु अष्टादशमुहूर्त्ता रात्रिर्द्वादशमुहूर्ती दिवसो भवतीति प्रदर्शितमेवेति । तत्रत्या सूत्ररचनात्वेवम् – 'उद्धीमुहकलंवुया पुप्फसठिया तावखेत्तसंठिई ' उर्ध्वमुखकलंबुकापुष्पसंस्थिता तापक्षेत्र संस्थितिरित्युक्तम्, सा च - ' अंतो संकुडा बाहि वित्थडा, अंतो वहा वाहि पिडुला, अंतो अंकमुहसंठिया वाहिँ सत्थियमुहसंठिया, उभओ पासेणं तसे दुवे बाहाओ अवट्टियाओ०" इत्यादि, सर्वोऽपि पाठोऽत्र पठनीयः, विस्तरभयाद् विरम्यते । एषा व्याख्याऽपि तत्र विलोकनीया विस्तरजिज्ञासुभिः सूर्यप्रज्ञप्तिसूत्रस्य मस्कृतायां सूर्य ज्ञप्तिप्रकाशिका टीकायां विलोकनीयम् । तत्रायं सर्वोऽपि पाठ संगृहीत इति । यत् तापक्षेत्र - चिन्तायां मन्दरपरिरयादेर्द्वाभ्यां गुणनं कृतं तत् अन्धकारचिन्तायां त्रिभिर्गुणनं कृतम्, ततोऽनन्तरं विभाजनं तूभयत्रापि दशभिरेव कृतम् । तथा सर्वबाह्यमण्डले चारं चरतः सूर्यस्य लवणसमुद्रमध्ये तदनुरोधात् तापक्षेत्रं पञ्च हस्रयोजन परिमितं भवति, अन्धकारश्चायामतो वर्धतेऽतः स त्र्यशीतिसहस्रयोजन परिमितः कथित इति ।
उक्तं च तापक्षेत्रसंस्थितेः, अन्धकारसंस्थितेश्च परिमाणम् । अथ च जम्बूद्वीपे द्वौ सूर्यो ऊर्ध्वमधः, पूर्वाऽपरे च विभागे किय क्षेत्रं तापयतः ? इति तन्निरूपणार्थमाह – 'ता जंबुद्दीवेणं दीवे' इत्यादि ।
'ता' तावत् 'जंबुद्दीवेणं दीवे' जम्बूद्वीपे खलु द्वीपे 'सूरिया' सूर्यैौ द्वौ सूर्यो प्रत्येकं ‘केवइयं खेत्तं' कियत्कं कियत्प्रमाणं क्षेत्रम् 'उड्टं तवेंति' ऊर्ध्वं तापयतः प्रकाशयतः, । ' केवइयं खेत्तं' कियत्कं कियत्प्रमाणं क्षेत्रम् 'अहे' अधः 'तवेंति' तापयतः । 'केवइयं खेत्तं' कियत्कं कियस्प्रमाणं क्षेत्रम् 'तिरियं तवेंति' तिर्यक् तापयतः । इति प्रश्ने कृते भगवानाह - 'ता' इत्यादि 'ता' तावत् 'जंबुद्दीवे णं दीवे' जम्बूद्वीपे खलु द्वीपे 'सूरिया' द्वौ सूर्यै प्रत्येकम् ' एगं जोयणसयं' एक योजनशतम् एकशतयोजनपर्यन्तम् 'उड्ढ' ऊर्ध्वं स्वविमानाद् ऊर्ध्वभागं 'तवेंति' तापयतः, 'अट्टारस जोयणसयाई' अष्टादशयोजनशतानि अष्टादशशतयोजनपर्यन्तम् 'अहे' अधः स्वविमानादधोभागे अधोलोकग्रामापेक्षया 'तर्वेति' तापयतः, तथा 'सीयालीस जोयणसहस्साई' सप्तचत्वारिंशयोजन सहस्राणि सप्तचत्वारिंशत्सहस्रयोजनानि ' दुन्निय तेवढे जोयणसयाई' द्वे च त्रिषष्टिः योजनशते त्रिषष्ट्यधिकद्विशत योजनानि 'एक्कवीसं च सद्विभागे जोयणस्स'- एकविंशर्ति च
-