________________
०२...
बद्रप्राप्तिप्रकाशिका टीका प्रा०४ सू०२ तापक्षेत्रसंस्थितिनिरूपणम् १६१ योजनपरिमिता, स जम्बूद्वीपपरिमाणात् शोध्यते ततो भवेयुः नवतिसंहस्रयोजनानि, एषां भागद्वयकरणे एकस्य भागस्य लभ्यन्ते पश्चचत्वारिंशत्सहस्रयोजनानीति ।
उक्तं तापक्षेत्रपरिमाणं, साम्प्रतं सर्वाभ्यन्तरमण्डलमाश्रित्यान्धकारसंस्थितिं प्रतिपादयन्नाह'तया गं' इत्यादि____ 'तया ' तदा खलु सूर्यस्य सर्वाभ्यन्तरमण्डलचारसमये 'कि संठिया' किं संस्थिताकीदृक्सस्थानवती 'अंधगारसंठिई' अन्धकारसंस्थितिः 'आहिया' माख्याता ? 'ति वएज्जा' इति वदेत् वदतु हे भगवन् ? भगवानाह-'ता' तावत् 'उद्धीमुहकलबुया पुष्फसंठिया' उर्ध्वमुखकलम्बुका पुष्पसंस्थिता 'तहेब जाव वाहिरिया चेव वाहा' तथैव यावत् बाह्याचैव वाहा तथैव पूर्वोक्तवदेवात्र पाठो ग्राह्यः । कियत्पर्यन्तमित्याह-यावत् बाह्या चैव बाहा, तत्रत्यप्रकरणं चेत्थम्आख्याता इति वदेत् , कीदृशी सा अन्धकारसंस्थितिः ? अत्राह-तथा च तत्पाठः-'अंतो संकुडा वाहि वित्थडा, अंतो वट्टा वाहिपिडुला, अंतो अंकमुहसंठिया, बाहि सस्थियमुइसंठिया, उभओ पासेणं तीसे दुवे वाहाओ अवट्ठियाओ भवंति, पणयालीसं पणयालीसं जोयणसहस्साई आयामेणं, तीसे दुवे वाहाओ-अणवठियाओ भवंति, तंजहा-सम्बन्भतरिया चेव वाहा सन्ववाहिरियाचेव वाहा”
एषां पदानामर्थः पूर्व व्याख्यातः, स तत्र विलोकनीयः । इमे द्वे वाहे अत्र अन्धकारसंस्थितेतिव्ये, इति विशेषः । तयोयोहियोर्मध्ये प्रथमं सर्वाभ्यन्तराया वाहाया विष्कम्भमाश्रित्य परिमाणमाह-'तीसे गं' इत्यादि ।
___तीसे णं' तस्या अन्धकारसंस्थितेः खल 'सव्वम्भतरिया वाहा' सर्वाभ्यन्तरा बाहा या - 'मंदरपव्ययंतेणं' मन्दरपर्वतान्ते मन्दरपर्वतसमीपे वर्तते सा 'छज्जोयणसहस्साई 'षड् योजनसहस्राणि पट्सहस्रयोजनानि 'तिणि य चउवीसे' जोयणसयाई, त्रीणि च चतुर्विंशतिः योजनशतानि चतुर्विशत्यधिकत्रिशतयोजनानि 'छच्च दसभागे जोयणस्स' षट् च दशभागान् योजनस्य ६३२४.६.) परिक्खेवेणं' परिक्षेपेण 'आहिया' आख्याता 'ति वएज्जा' इतिवदेत् कथयेत् स्वशिष्येभ्य इति । अत्र गौतमः पृच्छति 'ता से णं' इत्यादि । 'ता' तावत् 'से गं' स खलु पूर्वोक्तः 'परिक्खेवविसेसे' परिक्षेपविशेषः 'कोआहिए' कुतः कस्मात्कारणात् आख्यातः ! 'तिववएज्जा ' इति वदेत् वदतु हे भगवन् ! | भगवानाह-हे गौतम ? 'ता' तावत् 'जेणं' यः खलु 'मंदरस्स पव्वयस्स परिक्खेवे' मन्दरस्य पर्वतस्य परिक्षेपः प्राक प्रतिपादितप्रमाणोऽस्ति ''तं परिक्खे' तं परिक्षेपम् 'दोहिं गुणित्ता' द्वाभ्यां गुणयित्वा 'सेसं तहेव' शेषं तथैव पूर्ववदेव
२१