________________
१६०
चन्द्रप्रतिसूत्रे
नवळक्षाणि (९४८६८४) एतेषां दशभिर्भागे हृते लभ्यते यथोक्तं नम्बूद्दीपपर्यन्ते २, सर्वबाह्याबाहाया विष्कम्भपरिमाणम्–(९४८६८०० ) इति ।
तदेवमुक्तं नम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तराया सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणम् । साम्प्रतं सामस्त्येन तापक्षेत्रपरिमाणमायामतः कियत् इति जिज्ञासायामाह - 'ता से णं' इत्यादि ।
'ता' तावत् 'से णं' तत् खल्लु 'तावखेत्ते' तापक्षेत्रं 'केवइयं' कियत्कं । कियत्प्रमाणकम् 'आयामेणं' आयामेन सामस्त्येन दक्षिणोत्तरायततया 'आहियं' आख्यातम् । 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह - 'ता अट्ठत्तरिं' इत्यादि । 'ता' तावत् 'अत्तरि' अष्टसप्ततिं 'जोयर्णसहस्साइ' योजनसहस्राणि अष्टसप्ततिसहस्रयोजनानि 'तिष्णि य तेत्तीस जोयणसयाई' त्रीणि त्रयत्रिशतं योजनशतानि त्रयस्त्रिंशदधिकत्रिशतयोजनानि 'जोयणतिभागं च' योजनत्रिभागं च एकस्य योजनस्य तृतीयं भागं यावत् ७८३३३–) योजनत्रिभागं ‘जोयण तिभागं च' व्यायामेय दक्षिणोत्तरायतया 'आयामेणं' आयामेन दक्षिणोत्तरायतया 'आहिये' आख्यातं कथितम् 'ति वएज्जा' इति वदेत् स्वशिष्येभ्यः । अयमाशय::- सर्वाभ्यन्तरे मण्डले यदि सूर्यश्चारं चरति तदा तस्य तापक्षेत्रं दक्षिणोत्तरायततामाश्रित्य मेरोर्मध्यभागाद् आरभ्य यावत् लवणसमुद्रस्य षष्ठो भागो भवेत् तावद् वर्धते, अत्रार्थे चाह
मेरुस्समझभागा, जाव य लवणस्स रुंदछन् भागा । तावायामो एसो, सगडुद्धी संठिओ नियमा ॥ १ ॥ छाया - मेरोर्मध्यभागात् यावच्च कवणस्य रुंद पट्टभागाः ।
तापायामः, एष शकटो द्विसंस्थितो नियमात् ॥ १॥ इति 1, एषः तापक्षेत्रस्यायामः । तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तभागं यावत् पञ्चचत्वारिंशत्सहस्रयोज - नानि ( ४५०००) लवणसमुद्रस्य विस्तारश्च द्विलक्षयोजनानि एषां षष्ठो भागः षष्ठेन भागहरणात् ऊधः त्रयत्रिंशत्सहस्रयोजनानि, त्रयस्त्रिंशदधिकशतत्रयोत्तराणि योजनस्य च त्रिभागः (३३३३३ ं)। ततोऽस्यां संख्यायां पञ्चचत्वारिंशत् सहस्रयोजनानां संमेलने जातं यथो
कम् (७८३३३–÷) श्रायामपरिमाणम् । मेरोरारम्य जम्बूद्वीपपर्यन्तभागं यावत् पञ्चचत्वारिशत्सहस्रयोजनानि कथं स्युरित्याह-जम्बूद्दीपपरिमाणमेकलक्षयोजनकम् तस्मात् मेरोर्भागः - दशसहस्र