________________
चन्द्राप्तिप्रकाशिका टोका प्रा० ३- सू० २
तापक्षेत्रसंस्थितिनिरूपणम् १५५ अष्टषष्टि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण आख्याता इति वदेत् । तावत् स खलु परिक्षेपविशेषः कुत आख्यातः ? इति वदेत् । तावत् यः खलु जम्बूद्वीपरय द्वीपस्य परिक्षेपः, तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिग्छित्त्वा-दशभिर्भागे ह्रियमाणे पप खलु परिक्षेपविशेष आख्यात इति वदेत् । तावत् तत् खलु तापक्षेत्र कियत्कम् आयामेन आख्यातम् ? इति वदेत् । तावत् अष्टसप्ततिं योजनसहस्राणि त्रीणि च त्रयस्त्रिंशतं योजनशतानि, योजनविभागांश्च आयामेन आख्यातम् इति वदेत् । तदा खलु किं संस्थिता अन्धकारसंस्थितिः-आख्याता ? इति वदेत् ऊ/मुखकलम्बुका पुष्पसंस्थिता तथैव यावत् पाहा चैव बाहा। तस्याः खलु सर्वाभ्यन्तरा पाहा मन्दरपर्वतान्ते षड्योजनसहस्राणि श्रीणि च चतुर्विशति योजनशतानि पडदशभागान् योजनस्य परिक्षेपेण आख्याता इति वदेत् । तस्याः खलु परिक्षेपविशेषः कुत आख्यातः ? इति वदेत् । तावत् यः खलु मन्द. रस्य पर्वतस्य परिक्षेपः, तं परिक्षेपं द्वाभ्यां गुणयित्वा शेषं तथैव । तस्याः खलु सर्ववाहा वाहा लवणसमुद्रान्ते त्रिपष्टियोजनसहस्राणि च पञ्चचत्वारिंशतं योजनशते पड्दशभागान् योजनस्य परिक्षेपेण आख्याता इति वदेत् । तावत् स खलु परिक्षेपविशेषः-कुत आख्यातः १ इति वदेत् । तावत् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेपः, तं परिक्षेपं छाभ्यां गुणयित्वा दशभिश्छित्त्वा दशभिर्भागे ह्रियमाणे एष खलु परिक्षेपविशेषः आख्यात इति घदेत् । तावत् स खलु अन्धकारः क्रियत्कः आयासेन आख्यातः ? इति वदेत् । तावत् अष्ट्रसप्तति योजनसहस्राणि, त्रीणि च त्रयस्त्रिशतं योजनशतानि, योजनविभागं च आयामेन आण्यात इति वदेत् । तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूर्तो दिवसो भवति, जघन्यिका द्वादशमुहर्ता रानिर्भवति । सू०२॥
व्याख्या-'ता' तावत् कह' कथं केन प्रकारेण कीदृशीत्यर्थः ते तव भगवतो मते 'ताबक्खेत्तसंठिई तापक्षेत्रसंस्थिति. तापक्षेत्रस्य संस्थानं 'आहिया' आख्याता कथिता कि संस्थित तापक्षेत्रमाख्यातमिति भाव , 'ति वएज्जा' इति वदेत् वदतु भगवान् । 'तत्थ' तत्र तापक्षेत्रसस्थितिविषये 'इमाओ' इमाः वक्ष्यमाणप्रकाराः 'सोलस' षोडश पोडशसंख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः, 'तं जहा' तद्यथा-ता यथा'तत्थ णं' तत्र तापक्षेत्रसंस्थितिविषये खल ‘एगे पुण' एके केचन प्रथमाः प्रतिपत्तिवादिनः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः-कथयन्ति-'ता' तावत् 'गेहसंठिया' गेहसंस्थिता वास्तुशास्त्रप्रसिद्धगृहाकारा तावक्खेत्तसंठिई' तापक्षेत्रसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता, 'एगे' एके पूर्वोक्ता प्रथमा 'एवं' एवं पूर्वोक्तरूपेण 'आइंसु' अ'हु:-कथयन्ति १ 'एवं' एवम्-अनेन आलापक प्रकारेण 'ताऔ चेव' ता एव पूर्वोक्ताः पूर्वसूत्रोका नवमीगेहसंस्थितित आरभ्य अन्तिमाः 'अट्टपडिवत्तीओ' अष्टप्रतिपत्तयः पोडशपर्यन्ता अत्र 'णेयव्याओ' ज्ञातव्याः, कढक् प्रतिपत्तिपर्यन्तमित्याह-'जाव' यावत् षोडशीयाऽत्राष्टमी भवेत् सा 'वालग्गपोइया संठिया' वालाग्रपोतिका संस्थिता 'तावक्खेत्तसंठिई तापक्षेत्रसंस्थितिः प्रज्ञप्ता, 'एगे' एके अष्टमाः प्रतिपत्ति