SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिसूत्रे १५६ वादिनः 'एवं' एवं पूर्वोक्तप्रकारेण 'आहंसु' आहुः - कथयन्ति |८| एषामष्टानां व्याख्या पूर्व चन्द्रसूर्यसंस्थितिप्रकरणे कृता तत्रतोऽवगन्तव्या नात्र प्रपचितेति, 'एगे पुण' एके नवमाः पुनः ' एवं ' एवं - वक्ष्यमाणप्रकारेण 'आहंसु' आहुः - कथयन्ति - 'ता' तावत् 'जस्संठिए जम्बूद्दीवेदीवे' यत्संस्थितः यत्संस्थानवान् जम्बूद्वीपो द्वीपः 'तस्संठिया' तत्संस्थिता ' तावक्रखेत्तसंठिई ' तापक्षेत्रसंस्थितिः 'पण्णत्ता' प्रज्ञप्ता, 'एगे एवमाहंसु' एके एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति ९, 'एगे पुण' एके दशमाः पुनः 'एवमाहंस' एवं वदयमाणप्रकारेण आहुः - 'ता' तावत् 'जस्संठिए भारहे वासे' यत्संस्थितः भारत वर्षे भरतक्षेत्र 'तस्संठिया' तत्संस्थिता 'ताव - क्खेत्तसंठिई पण्णत्ता' तापक्षेत्र संस्थितिः प्रज्ञप्ता, 'एगे एत्रमाहंसु' एके दशमा एवं पूर्वोत प्रकारेण आहुः १० ' एवं ' एवम् अनेन प्रकारेण आलापककरणेन 'उज्जाणसंठिया' उद्यानसंस्थिता ११, ‘निज्जाणसंठिया' निर्याण संस्थिता, निर्याणनाम पुरस्य निर्गमनमार्गः, तत्संस्थिता १२, 'एगओ णिसघसंठिया' एकतो निषधसंस्थिता, एकतो रथस्यैकस्मिन् पार्श्वे निनितरां यः सहते स्वपृष्टभागे समारोपितं भारमिति निषधः - बलीवर्दः, तस्येव एकतः पार्श्वसंलग्नबलीवर्दस्येव संस्थानं यस्याः सा तथा १३, 'दुहओ णिसघसंठिया' द्विघातो निषधसंस्थिता, रथस्य उभयपार्श्वयोर्यो बलीवर्दो तयोरिव संस्थानं यस्याः सा तथा १४, 'सेयणगसंठिया ' सेचनकसंस्थिता सेचनकः श्येनकः पक्षिविशेषः वाज इति प्रसिद्धः, तस्येवसंस्थितं संस्थानं यस्या सा तथा, 'तावक्खेतसं ठिई' तापक्षेत्रसंस्थितिः 'पण्णत्ता' प्रज्ञप्ता 'एगे एवमाहंस' एके एवमाहुः, १५ | 'एगे पुर्ण' एके षोडशाः प्रतिपत्तिवादिनः पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'सेयणगपिट्ठसंठिया' सेचनकपृष्टसंस्थिता श्येनक पक्षिपृष्टभागस्य संस्थानसमाना 'तात्रक्खेत्तसंठिई' तापक्षेत्रसंस्थितिः 'पण्णत्ता' प्रज्ञप्ता 'एगे एवमाहंसु' एके घोडशा एवं पूर्वोक्तप्रकारेण आहुः कथयन्तीति ॥१६॥ तदेवं प्रदर्शिताः पोडशापि प्रतिपत्तयो मिथ्या रूपाः, ता निराकृत्य भगवान् स्वमतं प्रदयति - 'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः वय तु ' एवं ' एवं - वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह - 'उद्धीमुह' इत्यादि । 'ता' तावत् 'उद्धीमुहकलंबुया पुप्फसंठिया' उर्ध्वमुख कलम्बुका पुष्पसंस्थिता उर्ध्वभूतमुखस्य कलम्बुका नाम नालिका बनस्पतिविशेषः तस्य पुष्पस्येव संस्थितं संस्थानं यस्या सा तथाविधा तापक्षेत्रसंस्थितिः प्रज्ञप्ता । सा कीदृशी भवेदित्याह - 'अंतो संकुडा वाहिं वित्थडा' अन्तः संकुचिता बहिर्विस्तृता, अन्तः मेरुदिशि, बहिर्लवणसमुद्रदिशि क्रमेण संकुचिता विस्तृता चेति । पुनश्च 'अंतो वट्टा अन्तर्वृत्ता, अन्तर्मेरुदिशि वृत्तेति अर्धवलयाकारा अर्धगोलाकारा इत्यर्थः सर्वतो - त्तमेरुस्थितान् त्रीन् द्वौ वा दशभागान् अभिव्याप्य तस्या व्यवस्थितत्वात् 'चाहिँ पिहुला' बहिः पृथुला बहिः लवणसमुद्रदिशि विस्तारमुपगता । एतदेव पुनः स्पष्टयति 'अंतो अंकमुह "
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy