________________
..................चन्द्रप्राप्तिसूत्रे
१५२ .
. 'तत्थ णं' तत्र षोडशसु प्रतिपत्तिवादिषु खलु 'जे-ते' ये ते केचित् प्रथमाः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण बाहुः कथयन्ति 'ता' तावत् 'समचउरंससंठिया' समचतुरस्रसस्थिता समचतुरनसंस्थानसंस्थिता 'चंदिमसूरियसंठिई' चन्द्रसूर्यसंस्थितिः ‘पण्णचा' प्रज्ञप्ता इति । 'एएणं' एतेन अनुपदं पूर्वकथितेन 'नएणं' नयेन अभिप्रायेण 'नेयवं' ज्ञातव्यम् अस्माकं मतेऽपि चन्द्रसूर्यसंस्थितिः समचतुरस्रसंस्थानसंस्थिता कथिता एतस्या एव सत्यत्वात् , अतः 'नो चेव णं इयरेहि नैव खलु इतरैः शेषपञ्चदशप्रतिपत्तिवादिनां नये अभिप्रायैश्चन्द्रसूर्यसंस्थितिर्ज्ञातव्या तेषां मिथ्यारूपत्वादिति ।
पूर्व चन्द्रसूर्यसंस्थितिः समचतुरस्रसंस्थानसंस्थितेति भगवता प्रदर्शितम्, सा च कथं संगच्छते ? इति प्रदश्यते, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगस्य चादौ श्रावणे मासे कृष्णपक्षस्य प्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्या मित्याग्नेयकोणे वर्तते, तद्भिन्नो द्वितीयः सूर्यः पश्चिमोत्तरस्यामिति वायव्यकोणे वर्त्तते । एवं चन्द्रश्च तत्समये एको दक्षिणपश्चिमायामिति नैऋत्यकोणे वर्तते, तदन्यस्तु उत्तरपूर्वस्यामिति ऐशान्यकोणे वर्त्तते तस्माद् युगस्यादौ चन्द्रसूर्याः समचतुरस्रसंस्थानसंस्थिता भवन्तीत्यतो भगवता चन्द्रसूर्ययोः संस्थितिः समचतुरस्रसंस्थिता प्रतिपादिता । यच्चात्र मण्डलापेक्षया चन्द्रयोः संस्थितिविषये वैषम्य लभ्यते यथा तस्मिन् समये सूर्यो सर्वाभ्यन्तरमण्डले चारं चरतः, चन्द्रौ च तदा सर्वबाह्यमण्डले वर्तेते तेन चन्द्रयोः संस्थितिः समचतुरस्रसंस्थिता न भवेत' तत्तु मल्पमिति कृत्वा सूत्रकृता न विवक्षिता, :यतः सुषमासुषमादिरूपाणां समस्तकालविशेषाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिता चन्द्रसूर्ययोः संस्थितिर्भवति तत एतेषां संस्थितिः समचतुरस्रसंस्थानतया वर्णिता। ___अन्यथा वा स्व स्व सम्प्रदायानुसारेण समचतुरस्रसंस्थितिर्विचारणीयेति ।।सू० १॥
अथ पूर्वप्रतिज्ञातां तापक्षेत्रसंस्थितिं प्रतिपादयन्नाह-'ता कहं ते तावक्खेत्तसठिई' इत्यादि।
मूलम्-ता कहं ते तावक्खेतसठिई आहिया ? ति वएज्जा, तत्थ .खल इमाओ सोलस पडिवत्तीओ पण्णत्ताओ तं जहा-तत्य णं एगे एव माहंमु-ता गेहसंठिया तावक्खेत्तसंठिई पण्णत्ता ।। एवं ताओ चेव अट्ठ पडिवत्तीओ णेयवाओ जाव वालग्गपोइया संठिया तावक्खेत्तसंठिई पण्णत्ता एगे एव माहंसु ।८। एगे पुण एव माहंसुतां जस्संठिए जंबुद्दीवे दीवे तस्संठिया तावक्खेत्तसंठिई पण्णत्ता, एगे एवमाइंसु ।९। एगे पुण एवमाईमु-ता जस्संठिए भारहे वासे तस्संठिया तावक्खेत्तसंठिई पण्णता