________________
चन्द्रप्तिप्रकाशिका टीका प्रा० ४ सू० १ प्रकाशस्य संस्थाननिरूपणम् १५१ चाओ' प्रज्ञप्ताः 'तं जहा' तथा ता यथा-'तत्थ' तत्र षोडशसु प्रतिपत्तिवादिषु 'एगे' एके केचन प्रथमा ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु' माहुः कथयन्ति-'ता' तावत् 'समैचउरससंठिया' समचतुरस्रसंस्थिता समाः चतस्रः अत्रयः भागा यस्याः सा तथा समचतुर्भागवती 'चंदिमसरियसंठिई' चन्द्रसूर्यसंस्थितिः चन्द्रसूर्यविमानानां संस्थानरूपा 'पण्णत्ता' प्रज्ञप्ता । उपसंहारमाह-एगे एवमहिंसु' एके प्रथमास्तीर्थान्तरीया एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति ।१। इदमुपसंहारवाक्यमने सर्वत्र वाध्यम् । 'एगे पुण' एके द्वितीयाः पुनः ‘एचमाहंस' एवमाहुः 'ता' तावत् 'विसमचउरंससंठिया' विषमचतुरस्रसंस्थिता विषमचतुर्भागवती चंदिमखरियसंठिई' चन्द्रसूर्यसस्थितिः प्रज्ञप्ता 'एगे एवमासु' एके एवमाहुः ।२। 'एवं एएणं कमेणं' एवमेतेन प्रतिपत्तिद्वयप्रदर्शितेन क्रमेण मालापककमेणाने सर्वत्र योजना कर्त्तव्या । तृतीया एवमाहु-समचउक्कोणसंठिया' समचतुष्कोणसंस्थिता ३। इति । चतुर्थाः-'विसमचउक्कोणसंठिया' विषमचतुष्कोणसंस्थिता-विषमतया चतुष्कोणसंस्थानवतीति ४ पश्चमा:-'समचक्कबालसंठिया' समचक्रवालसंस्थितेति ५। षष्ठाः-'विसमचक्कवालसंठिया' विषमचक्रवालसंस्थितेति ६। सप्तमाः-'चक्कद्धचक्कवालसंठिया' चक्रार्धचक्रवालसंस्थिता, चक्रं रथचक्रं, तस्य यदर्ध चक्रवालं तत्सदृशसंस्थानवतीति ७ अष्टमाः- छत्तागारसंठिया' छत्राकारसंस्थितेति ८। नवमाः-'गेहसंठिया' गेहसंस्थिता-वास्तुविधयोपनिबद्धस्य गृहस्येव सस्थितं संस्थान यस्याः सा तथा, तादृशीति ९ दशमाः-गेहावणसंठिया' गेहापणसस्थिता-गृह युक्त आपणः गेहापणः वास्तुविद्या प्रसिद्धः, तत्सदृशसंस्थानवतीति-१०। एकादशाः-'पासायसंठिया' प्रासाद संस्थिता "प्रासादो धनिनां गृहम्" तत्सदृशसंस्थानवती ११। द्वादशाः-'गोपुरसंठिया' गोपुरसंस्थिता गोपुरं-पुरद्वारं, तत्सदृशसंस्थानवती १२। त्रयोदशाः-'पेच्छाघरसंठिया' प्रेक्षागृहसंस्थिता-प्रेक्षागृहं वास्तुशास्त्रप्रसिद्ध नाटकादिगृहं तत्सदृशसंस्थानवती १३। चतुर्दशाः-'वलभीसंठिया' वलभीसंस्थिता-वलभीगृहाच्छादनार्थ दीयमानं दीर्घलम्ब काष्ठं, तद्वत्संस्थानं यस्या सा ताहशीति १४। पश्चदशाः-'हम्मियतलसंठिया' हयंतलसंस्थिता-हम्मे-राजगृहं तस्य तलं, तत्सदृशमिति वदन्ति १५। 'एगे पुण' एके षोडशाः-पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आहेसु' आहुः कथयन्ति-'ता' तावत् 'वालग्गपोइया संठिया' वालाग्रपोतिकासंस्थिता तत्र 'वालाग्रपोतिका' देशीशब्दोय माकाशतडागमध्ये व्यवस्थितक्रीडास्थानवाचकः लघुप्रासाद इत्यर्थः, तद्वत् संस्थितं संस्थानं यस्याः सा तथा तत्सदृशसंस्थानयुक्ता 'चंदिमसरियसंठिई' चन्द्रसूर्यसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता, 'एगे' एके षोडशाः ‘एवं' एवं-पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्तीति १६। प्रदर्शिताः परमतवादिनां षोडश प्रतिपत्तयः अथ भगवान् एतासु-प्रतिपत्तिषु या समोचीना प्रतिपत्तिस्ता प्रदर्शयन्नाह-'तत्थ' इत्यादि ।