________________
चन्द्राप्तिप्रकाशिका टीक प्रा० ३-४ चन्द्रसूर्ययोः प्रकाशक्षेत्रनिरूपणम् १४९ हापयन् २ यदा सर्वबाह्यमण्डलं सूर्यः प्राप्नोति तदा द्वात्रिंशदधिक पप्तशत (७३२) भागा उद्योतस्य भवन्ति । एवमेव द्वितीयर्यविषयेऽपि स्वयमूहनीयम् । द्वयोमर्मीलने द्वयोः सूर्ययोः सर्वबाह्यमण्डलस्थितौ षष्टयधिकषट्त्रिंशच्छत (३६६) भागमध्यात् चतुष्षष्टयधिकचतुर्दशशत (१४६४) भागा जम्बूद्वीपे द्वीपे प्रकाश्यमाना भवन्ति, शेषेषु षण्णवत्यधिककविंशतिशत(२१९६) भागा अन्धकारस्य भवन्ति, एपु रात्रिर्भवतीत्यर्थः । सर्वमीलने भवन्ति जम्बूद्वीपस्य पञ्चचक्रवालसम्बन्धिनः षष्टयधिकपत्रिंशच्छत (३६६०) भागा इति । एवं यथा प्रथमे षण्मासे सर्वाभ्यन्तरमण्डलान्निष्कामतोयोः सूर्ययोर्जम्बूद्वीपविषयकः प्रकाशविधिः क्रमेण प्रतिसूर्य भागद्वयहान्या हीयमानः प्रोक्तस्तथैव द्वितीयषण्मासे सर्वबाह्यमण्डलात्सर्वाभ्यन्तरमण्डलं प्रविशतोईयोः सूर्ययोर्जम्बूद्वीपविषयकः प्रकाशविधिः प्रतिसूर्यक्रमेण भागद्वयवृद्धया वर्धमानो ज्ञातव्य इतै स्वयमूहनीयम् । अत्रोक्तमन्यत्र -छत्तीसे भागसए, सर्टि काऊण जंबुदीवस्स ।
तिरियं तत्तो दो दो, भागे वड्ढेइ हायई वा ॥१॥ छाया-पटत्रिंशद्भागशतानि पष्टिं (३६६०) कृत्वा जम्बूद्वीपस्य
तिर्यक् (शनैः शनैः क्रमेण) ततो द्वौ द्वौ भागौ वर्धते हीयेते वा ॥१॥ अत्रविपये पुनरपि विस्तरतो व्याख्यानं सूर्यप्रज्ञप्तिसूत्रस्य मत्कृतायां सूर्यजप्तिप्रकाशिकाव्याख्यायामवलोकनीयमिति ॥सू० १॥
॥ अथ चतुर्थ भाभृतम् भारभ्यते ॥ गतं तृतीयं प्राभृतम् , तत्र सूर्यचन्द्रयोः प्रकाश्यमानक्षेत्रमुक्तम् । साम्प्रतं चतुर्थमारभ्यते, अस्मिन् 'कहं ने सेययाए संठिई आहिया' कथं श्वेततायाः संस्थितिराख्याता इति प्रकाशस्य संस्थानरूपोऽर्थान्धकार. प्ररूपयिष्यते ततस्तद्विपयं सूत्रमाह-'ता कहते सेययाए" इत्यादि।
मूलम्-ता कहं ते सेययाए संठिई अहिया ? तिवएज्जा तत्थ खल इमा दुविहा संठिई पण्णता, त जहा-चंदिमसूरियसंठिई य १ तावक्खेत्तसंठिईय २। ता कहं ते चंदिमसरियसंठिई आहिया ? ति वएज्जा, तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्ोंगे एवमाहंसु ता समचउरंससंठिया चंदिमसूरियसंठिई पण्णता, एगे एवमाहसु १। एगे पुण एवमाहंसु ता विसमचउरंससंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु ।२। एवं एएणं अभिलावेणं समचउक्कोणसंठिया ३, विसम चउक्कोणसंठिया :४। 'समचक्कवालसंठिया ५, विसमचक्कवालसंठिया ६, चक्कद्ध