________________
.
..
चन्द्रप्रज्ञप्तिसूत्रे
-
प्रकाशभागा:
१४६४
-
-
-
-
-
-
wwwimmmmmmmm कोष्टकम् सर्ववाह्यमण्डले द्वयोः सूर्ययोः
मध्यमण्डलेपु. द्वयशीत्यधिकशत - (१८२)संख्यकेषु प्रतिमण्डलं प्रति
सूर्यनिष्क्रमणकाले भागद्वयस्य हानिः अन्धकारभागाः-
२१९६
प्रवेशकाले च मागदयस्य वृद्धि सर्वमेलन -- -
३६६० विज्ञेयेति । । अयमाशय:--सर्वाभ्यन्तरमण्डलचारसमये- प्रत्येकसूर्यस्याष्टानवत्यधिकदशशत (१०९८) मागपरिमितोद्योतभागसगावात् द्वयोः सूर्ययोः षण्णवत्यधिककविंशतिशत (२१९६) भाग. परिमित उद्योतः, शेष चतुष्पष्टयधिकचतुर्दशशत (१४६४) भागपरिमितोऽन्धकारभागयोर्मीलने घट्यधिकानि पद त्रिंशच्छतानि (३६६०) भागा. जम्बूद्वीपस्य पञ्च चक्रवालसम्बन्धिनो लम्यन्ते सर्वबाह्यमण्डलचारसमये च एतद्विपरीतं भवति, यथा-द्वयोः सूर्ययोःचतुष्पष्टयधिकचतुर्दशशत (१४६४) मागपरिमित उद्योतभागः, पणवत्यधिकविंशतिशत (२१९६) .भागपरिमितोऽन्धकारभागो भवति, द्वयोर्मीलने च भवन्ति- - पष्टयधिकानि पत्रिंशच्छतानि (३६६०) भागाः जम्बूद्वीपस्येति सर्वं पूर्व कोष्ठकद्वये प्रदर्शितमिति । . .
' अथ रात्रिदिवसप्रमाणमाह-'तयाण' इत्यादि । 'तया णे' तदा पूर्व प्रदर्शितपरिमितप्रकाशान्धकारसमये खल 'उत्तमकट्ठपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्पिका सर्वोत्कृष्टा सर्वगुर्वीत्यर्थः 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिभवति, 'जहण्णए' जघन्यकाः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवतीति । ' एवं द्वितीयमण्डलादारभ्य इचशीत्यधिकशततममण्डलपर्यन्तविचारणायामेवं ज्ञातव्यम्-सर्वबाह्यमण्डले यदा सूर्यश्चारं चरति तदा एक सूर्यमधिकृत्य 'द्वात्रिंशदधिकसप्तशत (७३२) भागाएकस्य पञ्चमस्य चक्रवालस्य सम्बन्धिनः उद्योतस्य लम्यन्ते तथा-अष्टनवत्यधिकदशशत(१०९८) भागाः शेषाः चतुश्चक्रवालसम्बन्धिनः अन्धकारस्य लभ्यन्ते । सर्वाभ्यन्तरमण्डलचारसमयेऽटनवत्यधिकदशशत (१०९८) भागाः सार्धे कचक्रवालसम्बन्धिनो भवन्ति, एतेभ्यो मर्वबाह्यमण्डलगना द्वात्रिंशदधिकसप्तशत (७३२) भागाः शोध्यन्ते तदा शेषाः पट्पष्टधिकत्रिंशत (३६६) भागा न्यूना लम्यन्ते । एषा न्यूनसंख्या त्र्यशीत्य-धिकैकशत (१८३) संख्यकेपु मण्डलेषु भवति ततोऽनेन (१८३) पट्पष्टचधिकत्रिशत (३६६) भागानां भागो हियते तदा लम्यते द्वौ भागौ। अनयोईयो गयोर्हानिः प्रत्येकमण्डलेषु क्रमेण भवति । एवं सर्वाभ्यन्तरमण्डलात् सर्वबाद्यमण्डलं प्रतिसूर्यस्य गमनसमये प्रतिमण्डलं भागद्वयमुद्योतस्य