________________
चन्द्राप्तिप्रकाशिका टोका प्रा०३ सू० १ चन्द्रसूर्ययोः प्रकाशक्षेत्रनिरूपणम् १४७ षष्टयधिकानि षट् त्रिंशछतानि (३६६०) जम्बूद्वीपस्य पश्चचक्रवालभागानां कल्पिताः सर्वे भागा ।
| सर्वाभ्यन्तरमण्डले द्वयोः सूर्ययो प्रकाशभागाः
२१९६ तथाच कोष्ठकम् - अन्धकारमागा:
१४६४ सर्वमेलने - -
३६६०
सम्प्रति दिवसरात्रिप्रमाणमाह-'तया णं' इत्यादि । 'तया णं' तदा--पूर्वोक्तपरिमितप्रकाशान्धकारसमये खलु 'उत्तमककृपत्ते' उत्तमकाष्ठाप्राप्त परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वगुरुः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहतों दिवसो भवति, 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमूहूर्ता रात्रिर्मवति ।
अथ सर्वबाह्यमण्डलवकव्यतामाह-'ता जया णं' इत्यादि । 'ता' तावत् 'जया ण' यदा खल 'एए दुवे सरिए एतौ द्वौ स्यौं 'सबबाहिरं मंडलं उबसंकमित्ता चार .चरंति' सर्वबाह्य -मण्डलम् उपसंक्रम्य चारं चरतः 'तया णं तदा खलु 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य दोणि चक्कभागे' द्वौ चक्रभागौ चक्रवालभागी 'ओभासेंति ४' अवभासयतः उद्योतयतः, तापयतः, प्रकाशयतः । अथ-एकैकसूर्यमधिकृत्याह'ता एगे वि' इत्यादि । 'ता' तावत् 'एगे वि सुरिए' तयोर्मध्ये एकोऽपि सूर्यः-एकः सूर्यः अपि वाक्यालङ्कारे 'एग पंचचक्कभागं' एकं पश्चमं चक्रवालभागं द्वात्रिंशदधिकसप्तशत (७३२) भागरूपम् 'ओमासेइ ४' भवभासयति, उद्योतयति, तापयति, प्रकाशयति । एवम्-'एगेवि मूरिए' एकोऽपरोऽपि सूर्यः 'एग चक्कभागं' एकं पश्चमं चक्रमालभागं द्वात्रिंशदधिकसप्तशत (७३२) रूपम् 'ओभासेइ ४' अवभासयति, उद्योतयति, तापयति. प्रकाशयति । अयं भावः-सर्वबाद्यमण्डले 'द्वयोः सूर्ययोश्चारसमये तो समुदितौ द्वौ सूर्यों द्वौ चक्रवालभागौ चतुष्षष्टयधिकचतुर्दशशत (१४६४) भागरूपौ प्रकाशयतः, अतः सर्वबाह्यमण्डलचारसमये चतुष्पष्टयधिकचतुर्दशशत (१४६४) भागपरिमितः उद्घोतभागो दिवसरूपो लभ्यते शेषाजयश्चक्रवालभागाः षण्णवत्यधिकैकविंशतिशत (२१९६) भागपरिमितोऽन्धकारभागो रात्रिरूपो लभ्यते, तथा चैवं सर्वेषामुद्घोतान्धकारभागानां संमेलने भवन्ति षष्टयधिकानि पद त्रिशच्छतानि (३६६०) जम्बूद्वीपभागाः।