________________
1nM
चन्द्राप्तिसूत्रे चक्रभागसंस्थितः आक्ष्यातः ! 'ति वएज्जा' इति वदेत् वदतु कथयतु । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता जयाणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खल. 'एए' एतौ प्रवचनवेतृणां प्रसिद्धौ ‘दुवे सुरिए' द्वौ . समुदितौ सूर्यो 'सव्वभंतरमंडळ उवसंकमित्ता चारं चरति' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः 'तया गं' तदा खल 'जंबुद्दीवस्स दोवस्स' जम्बूद्वीपस्य द्वीपस्य 'तिणि पंच चक्कभागे' त्रीन् पञ्च चक्रभागान् पञ्चचक्रवालभागान् 'ओमासेति' भवभासयतः 'उज्जोवेति' उद्घोतयतः 'तवेंति' तापयतः, 'पगासेंति' प्रकाशयतः 'तं जहा' तद्यथा-तथाहि-'एगे विसरिए' एकोऽपि सूर्यः एकस्तु सूर्यः 'एग दिवढं' एकं परिपूर्णमेकं द्वयर्घ द्वितीया च सार्वैकमित्यर्थः 'पंच चक्कभार्ग' पञ्च चक्रभाग पञ्चमं चक्रवालभागम् अयं भावः-एकं पञ्चमं चक्रबालमार्ग द्वितीयस्य पञ्चमस्य चक्रबालभागस्यार्धेन सहितम् 'ओभासेइ उज्जोवेइ तवेइ पगासेई' अवभासयति उद्योतयति तापयति प्रकाशयति । 'एगे वि' सूरिए' एकस्तु अपरः सूर्यः 'एगं दिवढं' एक तदन्यं परिपूर्णमेकं द्वयर्घ द्वितीयमधु च सार्धमेकमित्यर्थः पंच चक्कभाग पञ्चमं चक्रवालभागम् 'ओभासेइ' ४, अवभासयति उद्योतयति तापयति प्रकाशयति । अयं भावः--
अनयोईयोः सूर्ययोः प्रकाशितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति । अयमाशयः-जम्बूद्वीपगतानां पञ्चानां चक्रवालानां षष्टयधिकषट्शतोत्तरसहस्रत्रयभागाः(३६६०) कल्प्यन्ते, तस्य पश्चभागकरणार्थ पञ्चभिर्भागो हियते लब्धानि द्वात्रिंशदधिकानि सप्तशतानि (७३२) 'एग दिवड्डं' इति कथनात् इयं संख्या सार्धा क्रियते तदा जातमष्टानवत्यधिक सहस्रमेकम् (१०९८) ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्यः षष्टयधिकषट्शतोचर सहनत्रय (३६६०) संख्यकानां भागानां मध्यात् अष्टानवत्यधिकैकसहन (१०९८) परिमितं भागम् अवभासयति । एवमपरोऽपि सूर्यः-अष्टानवत्याधिकैकसहन (१०९८) परिमितं भागम् अवमासयति, उभयोर्योगकरणे जातानि षण्णवत्यधिकानि एकविंशतिशतानि (२१९६)। एतत्परिमितभाग चक्रवाळप्रकाश्यमानं लभ्यते शेषं चतुष्षष्टयधिकचतुर्दशशत (१४६४) परिमितभागेऽन्धकारो लभ्यते, तदा च पश्च चक्रवालभागमध्यात् द्वौ चक्रवालभागौ रात्रिः, त्रयश्चक्रवालभागाः दिवसः । तथाहि-एकतोऽपि एकः पश्चमो भागो द्वात्रिंशदधिकसप्तशत(७३२) भागा रात्रिः, अपरतोऽपि एकः पञ्चमो भागो द्वात्रिंशदधिकसप्तशत , (७३२) भागा रात्रिः । द्वयोर्मीलने जातानि चतुष्पष्टयधिकानि चतुर्दशशतानि (१४६४), एतत्परिमितोऽन्ध. कारभागो लभ्यते । शेषाः षण्णवत्यधिकैकविंशतिशत (२१९६) भागाः। एतत्परिमितः प्रकाश भागो-दिवसो-लभ्यते, ततः सर्वेषामन्धकारमागानामुद्योतभागानां च संमेलने भवन्ति