SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा०२-३ सू०३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १३९, पष्टिभागाः १३) सर्वसंख्या- (३२००१-४६३) इति । 'तया गं' तदा पूर्वोक्ते सूर्यस्य चक्षुःस्पर्शसमये खलु 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रानिर्भवति किन्तु सा 'चउहिं एगसहिभागमुहुत्तेहिं ऊणा' चतुर्भिरेकषष्टि भागमुहत्तैः ऊना होना भवति 'दुवालसमुहुत्तों' दिवसो भवइ' द्वादशमुहूर्तो दिवसो भवति स च 'चउहिं एगसद्विभागमुहुत्तेहि अहिए' चतुभिरेकपष्टिभागमुहूर्तेरधिको भवति । अथाने चतुरादि मण्डलेपु चातिदेशमाह-'एवं खलु' इत्यादि ! "एवं' एवम्-अनेन प्रकारेण खल निश्चितम् 'एएण' एतेन पूर्वप्रदर्शितेन 'उवाएण' उपायेन विधिना 'पविसमाणे' प्रविशन् तत्तदभ्यन्तरचतुरादि मण्डलाभिमुखं गच्छन् 'सरिए' सूर्यः 'तयागंतराओ तयाणंतर' तदनन्तरात् तदनन्तरं 'मंडलाओ मंडलं' मण्डलान्मण्डलम् एकस्मात् मण्डलादं द्वितीयं मण्डलं 'संकममाणे २'-संक्रामन् २ अग्रेड गतिं कुर्वन् 'अट्ठारसअट्ठारस' सहिभागे जोयणस्स' प्रतिमण्डलमष्टादशाष्टदशपष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् , निश्चयतः किञ्चिन्यूनान् ‘एगमेगे मंडले' एकैकस्मिन् मण्डले प्रत्येकमण्डले 'मुहत्तगईमुहर्तगतिम् अत्र सप्तम्यर्थे द्वितीया प्राकृतत्वात्, तेन मुहूर्तगतौ-मुहूर्तगतिपरिमाणे "णिव्वुड्ढेमाणे २' निर्वर्धयन् २ हापयन् २ परिरयमधिकृत्य हानिसद्भावात् 'साइरेगाई' सातिरेकाणि किश्चिदधिकानि 'पंचासीई जोयणाई' पञ्चाशीति योजनानि 'पुरिसच्छाय' पुरुपच्छायाम् अत्रापि सप्तम्यर्थे द्वितीया भावाद् पुरुपच्छायायां दृष्टिपथप्राप्ततारूपायाम् 'अलिवुड्ढमाणे २' अभिवर्धयन् २ 'सव्वमंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । . अत्र तृतीयमण्डलादारभ्य सर्वाभ्यन्तरमण्डलं द्वयशीत्यधिकशततमं भवति ततश्चतुर्थमण्डलादारभ्य एकाशीत्यधिकशततममण्डलपर्यन्तं हापनाभिवर्धनप्रकारः पूर्वोक्तयुक्त्या स्वयमूहनीयः । विस्तरतो व्याख्या च सूर्यप्रज्ञप्तिसूत्रस्य मत्कृतायां सूर्यज्ञप्तिप्रकाशिकायां व्याख्यायां विलोकनीया । अथं सर्वाभ्यन्तरमण्डलस्य गणितप्रकारः प्रदश्यते, तथाहि-यदा तु सर्वाभ्यन्तर मण्डले सूर्यश्चारं चरति तदा यदि दृष्टिपथप्राप्तताविषयकं परिणामं ज्ञातुमिष्यते तदा षट्त्रिंशत् (३६)द्वयशीत्यधिकशतेन (१८२) गुण्यते तृतीयमण्डमधिकृत्य सर्वाभ्यन्तरमण्डलस्य चशीत्यधिकशततमसंख्यकत्वात् । ततो गुणने जातानि द्विपञ्चाशदधिकानि पञ्चषष्टिशतानि (६५५२) एपामेकषष्टया भागो हियते लब्धं सप्तोत्तरमेकं शतं ४) षष्टिभागानाम् ६०
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy