________________
चन्द्रप्राप्तिप्रकाशिका टीका प्रा०२ सू० ३
सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशुः १३७
-~
तत्सत्कैः ‘सट्ठीए चुणियाभागेहिं' षष्ट्या चूर्णिकाभागैः (३१९१६३९६९) 'सरिए सूर्यः 'चक्खुप्फासं' चक्षुः स्पर्श 'इव्वमागच्छइ' हव्यमागच्छति-चक्षुर्गोचरी भवतीत्यर्थः । कथमिति दर्श्यते-सूर्यस्यास्मिन् मण्डले प्रथमेऽहोरात्रे संचरणसमये द्वाभ्यां मुहर्तकष्टिभागाभ्यामधिको द्वादश मुहूर्तो दिवसो भवति, ततो द्वादशानां दिवसमुहूर्तानामर्ध क्रियये तदा जाताः पड़ मुहूर्ताः द्वयोर्मुहूर्तकभागयोरर्धको मुहत्तै कपष्टिभागश्च ततः पड़ मुहूर्ताः एकश्च मुहूर्त कषष्ठिभागः (६) इति जातम् । तत एषां सर्वेषामेकषष्टिभागानयनार्थमेतान् पडपि मुहूर्तान् एकषष्टया गुणयित्वा एकएकषष्टिभागस्तत्राधिकत्वेन प्रक्षिप्यते ततो जातानि सप्तपष्टयुत्तराणि त्रीणि शतानि (३६७) । ततः सर्वबाह्यमण्डलादप्रेतने द्वितीये मण्डले यत्परिधिपरिमाणमू-सप्तनवत्यधिकद्विशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजनसंख्यकम्-(३१८२९७) तत् एभिर्दिवसमु हर्चानामेकषष्टिभागैः सप्तपष्टयुत्तरत्रिशत (३६७) संख्यकैर्गुण्यते जाता एकादश कोटयः, अष्टषष्टिलक्षाः, चतुर्दशसहस्राणि, नवनवत्यधिकानि नवशतानि च (११, ६८, १४, ९९९) अस्याः संख्याया एकपष्टिगुणितया पष्टया पष्टयधिक पट् त्रिशच्छतरूपया (३६६०) भागो हियते । हृते च भागे लब्धानि षोडशोत्तरनवशताधिकानि एकत्रिंशत् सहस्राणि (३१९१६) । उदरन्ति, शेषाणि एकोनचत्वारिंशदधिकानि चतुर्विंशतिशतानि (२४३९) । एभिर्योजनानि नायान्ति ततोऽस्य पष्टिभागकरणार्थमेकपष्टया भागो हियते, लब्धा एकोनचत्वारिंशत् षष्टिभागाः, शेषा स्थिताः षष्टिः ते च एकस्य पष्टिभागस्य सत्काः पष्टिरेकपष्टिभागाः, तथा चाहतः-(३१९१६ -
) इत्यायातं यथोक्तं चक्षुःपथप्राप्तताविषयं परिमाणम् 'तया णं' तदा खल सूर्यस्य सर्ववाह्यानन्तराक्तिनद्वितीयमण्डलचारकाले खलु 'अट्ठारसमुहुत्ता' अष्टादशमुहर्ता 'राई भवइ' रात्रिर्भवति, सा 'दोहिं एगसहिभागमुहुत्तेहिं' द्वभ्यामेकषष्टिभागमुमुहर्ताभ्याम् 'ऊणा' ऊना हीना भवति, । 'दुवालसमुहुत्तो दिवसो भवई' द्वादशमुहूर्तो दिवसो भवति, स च 'दोहिं एगसहिभागमुहुत्तेहिं द्वाभ्यामेकष्टिभागमुहूर्ताभ्याम् 'अहिए' अधिको भवति । तथा 'से' सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् सर्वबाह्यान न्तरार्वाक्तन द्वितीयस्मात् मण्डलादने गच्छन्नित्यर्थः 'सूरिए' सूर्यः 'दोच्चंसि अहोरत्तसि' द्वितीयेऽहोरात्रे 'बाहिरं' बाह्यं बाह्यमार्गप्राप्तत्वाद् बाह्यं तच्चं मंडलं' तृतीयं सर्वबाह्यमण्डलमाश्रित्य तृतीयस्थानगतं मण्डलम् 'उवसंकमित्ता चारं चरइ' उ५ कम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए सूर्यः 'वाहिरं वच्चं मंडलं' बाह्यं तृतीयं मण्डलम् 'उवसंकमित्ता
...३९/६०.