________________
चन्द्रशतिप्रकाशिका टोका प्रा०२ - ३ सू० २ पूर्वोक्तविषये स्वसिद्धांत प्रतिपादनम् १२९ ष्टादशाष्टादशषष्टिभागवृद्धिमाश्रित्येथेः 'णिक्खममाणे' निष्कामन अभ्यन्तरान्मण्डलात् सर्वबाह्यमण्डलाभिमुखं गच्छन् 'सूरिए' सूर्यः 'तयाणंतराओ तयाणंतरं' तदनन्तरात् तदनन्तरं 'मंडलाओ मंडल' मण्डलान्मण्डलम् एकस्मान्मण्डलाद् द्वितीयं मण्डलं 'संकममाणे२' संक्रामन् संकामन् 'अट्ठारस २ सद्विभागे जोयणस्स' अष्टादशाष्टादशपष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयत. किश्चिन्न्यूनान् 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'मुहुत्तगई' इत्यत्र सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ 'परिबुड्ढेमाणे' २' परिवर्धयन् परिवर्धयन् 'तुलसी' चतुरशीर्ति 'सीयाई' इति गीतानि किञ्चिन्न्यूनानि योजनानि, किञ्चिन्न्यून चतुरशीतियोजनानि 'पुरिस छायं' अत्रापि सप्तम्यर्थे द्वितीया तेन पुरुषच्छायाया, पुरुषछाया पुरुषस्य छाया यतो भवति, सा, प्रस्तावात् प्रथमत उदयमानस्य सूर्यस्य दृष्टिपथप्राप्तता गृह्यते तस्यामेकैकस्मिन् मण्डले किञ्चिदूनचतुरशीर्ति योजनानि 'निव्बुद ढेमाणे २' निर्वर्धयन् २ हापयन् २ हीनानि कुर्वन्नित्यर्थः सूर्यः 'सव्ववाहिरं मंडल' सर्वबाह्यं मण्डलं त्र्यशीत्यधिकशततमं मण्डलम् उवसंकमित्ता चारं चरई ' उपसंक्रम्य चारं चरति । अत्रायं भावः
पूर्वं किञ्चिन्यूनानि चतुरशीतियोजनानि' इत्युक्तं तत्स्थूलदृष्टया प्रोक्तम्, परमार्थतस्तु तदेवम्-यशीतिर्योजनानि, त्रयोविंशतिश्च षष्टिभागा योजनस्य, एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्वागाश्च (८३ - २३।६० - ४२/६१ ) एषा संख्या दृष्टिपथप्राप्तता - विषये विषयहानौ ध्रुवराशि जतः । ततो यस्य यस्य मण्डलस्य दृष्टिपथप्राप्ततां ज्ञातुमिच्छद्भिः सर्वाभ्यन्तरमण्डलगततृतीयमण्डलादारभ्य अर्थात् तृतीयं मण्डलं प्रथमं परिकल्प्य ततोऽग्रे तत्तन्मण्डलसंख्यया षट्त्रिंशत्संख्या गुणनीया, तथा च- सर्वाभ्यन्तरमण्डलात्तृतीये मण्डले एकेन, चतुर्थे द्वाभ्यां पञ्चमे त्रिभिः - यावत् सर्वग्राह्यमण्डले छ्यशीत्यधिकेन शतेन गुण्यते । गुणनाद् यद् आगतं तद् ध्रुवराशिमध्ये प्रक्षेपणीयम् । प्रक्षिप्ते सति यद् जायते तत् पूर्व मण्डलगत दृष्टिपथप्राप्ततामध्यादपकृष्यते । अपकृष्टे या संख्या जाता तत्प्रमाणा तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्ता ज्ञातव्या । अथ त्र्यशीतियोजनानीत्यादिरूपो ध्रुवराशिः कथमुत्पद्यते ? अत्रोच्यते
1
अत्र सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्तता परिमाणम् त्रिषष्ट्यधिकशतद्वयोत्तराणि सप्तचत्वारिंशत्सहस्राणि तदुपरि योजनस्य एकविंशतिः षष्टिभागाश्च ( ४७२६३-२१।६०), एतच्च अष्टादशमुहूर्त्तदिवसार्धं नवमुहूर्त्तगम्यं परिमाणं वर्त्तते तत एकस्मिन् मुहूर्ते कषष्टिभागे पूर्वोक्तदृष्टिपथप्राप्तताविषयकं परिमाणं कियदागच्छतीति विचारणायां मुहूर्त्तानामेष्ट भागकरणार्थं नवमुहूर्त्ता एकषष्टया गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि पञ्चशतानि (५४९) मुहूर्त्तेक षष्टिभागाः । एतैर्भागो ह्रियते लब्धाः पडशीतिर्योजनानि पञ्चषष्टिभागा योजनस्य, एकस्य च षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्काश्चतुर्विंशतिभागाः - ( ८६ - ५१६०- )
२४ ६१
१७