________________
१२८
-.-.
चन्द्रप्राप्तिसूत्रे प्यन्ते ततो भवति यथोक्तमस्मिन् तृतीये मण्डले सूर्यस्य मुहूर्तगतिपरिमाणम्-(५२५२५/६०) इति । 'तया णं' तदा खल 'इहगयस्स मणसस्स' इहगतस्य मनुष्यस्य जातावेकवचनत्वात् भरतक्षेत्रगतानां मनुष्याणामित्यर्थः 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारि शत्ता योजनसहनैः 'छण्णउइए य जोयणेहिं' षण्णवत्या च योजनः 'तेत्तीसाए य सद्विभागेहि जोयणस्स' त्रयस्त्रिंशता च पष्टिभागैर्योजनस्य 'सहिमागं च एगसद्विहा छेत्ता' एक पष्टिभागम् एकपष्टिधा छित्त्वा 'देहिं चुणियाभागेहि' द्वाभ्यां चूर्णिकाभागाभ्यां (४७०९६ ३३/६० । २.६१ चू) 'रिए' सूर्यः 'चक्लुप्फासं' चक्षुःस्पर्श 'हच्चमागच्छई' शीघ्रमागच्छति सूर्यः पूर्वप्रदर्शितयोजनादिना दुरतश्चक्षुर्गोचरी भवतीतिभावः । तदेव दर्शयति ।
अस्मिन् तृतीये मण्डले यदा सूर्यश्चार चरति तदा योजनस्य चतुर्मुहूर्त्तकपष्टिभागहीनोऽष्टादशमुहूर्तो दिवसी भवति, अस्याध द्विमुहूत्तकपष्टिभागहीना नवमुहर्ता भवन्ति । नव मुहूर्तान एकपष्टया गुणयित्वा द्वावेकपष्टिभागौ तेभ्योऽपनीयेते तदा जाताः सप्तचत्वारिंशदुत्तराणि पश्च शतानि एकपष्टिभागाः (५४७) तदनु अनेन राशिना तृतीयमण्डलपरिधिपरिमाणं गुण्यते, तच्च पश्चविंशत्युत्तरैकशताधिक पञ्चदशसहस्रोत्तराणि त्रीणि लक्षाणि (३१५१२५) अस्याः संख्यायाः पूर्वसम्पादितैः सप्तचत्वारिंशदुत्तरपञ्चशतै (५४७) र्गुणने जाताः सप्तदशकोट्यः त्रयोविंशतिलक्षाणि त्रिसप्ततिः सहस्राणि पञ्चसप्तत्यधिकानि त्रीणि शतानि च (१७, २३७३, ३७५) । एषाम् एकपष्टयाः पष्टिसंख्यया गुणने यानि लब्धानि षष्टयघिकानि पद त्रिंशच्छतानि (३६६०) तैर्भागी हियते तदा लब्धानि षण्णवत्यधिकानि सप्तचत्वारिंशत्सहस्राणि (४७०९६), शेषमुद्धरति पश्चदशषिके द्वेसहस्र (२०१५)। तत इयं संख्या भाजकान्न्यूनत्वाद् योजनानि न लभ्यन्तेऽतः पष्टिभागानयनार्थम् ‘एगसट्ठिहा छेत्ता' इति मूलसूत्रवचनात् छेदराशिरेकषष्टिम्रियते, तेन भागे हुने लब्धास्त्रयस्त्रिंशत् पष्टिभागा (३३१६०), एकस्य च पष्टिभागस्य सत्कौ द्वावेक पष्टिभागौ (२।६१), एष एव चूर्णिका भागः । एवं गणितरीत्या लब्धं मूलसूत्रोक्तम्-४७०९६३३१६०-२।६१चू०) सूर्यस्य भरतक्षेत्रस्थमनुष्याणां दृष्टिपथप्राप्तता विषयकं परिमाणमिति ।
'तया णं' तदा तृतीय मण्डलगतस्य सूर्यस्य चक्षुःपथप्राप्तिकाले खल 'अद्वारसमुहत्तो दिवसो भवई' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'चउहि एगसट्ठिभागमुहुत्तेहिं ऊणे' चतुर्भिरेकपष्टिमागमुहूर्तरूनः हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति, सा च 'चउहि एगसट्ठिभागमुहुत्तेहि' चतुर्मिरेकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति सूर्यस्य निष्क्रमणकाले दिवसस्य हान्याः रात्रेश्च वृद्धेर्नियमसद्गावात् । अथाग्रेतनानां चतुर्थादिमण्डलानां विषयेऽतिदेशमाह -'एवं' इत्यादि । 'एवं खलु' एवम्-अनेन रीत्या खलु 'एएणं उवाएणं' एतेन पूर्वप्रदर्शितेन उपायेन विधिना सूर्यस्य प्रतिमुहर्तगतिपरिमाणस्या