________________
चन्द्रप्राप्तिसूत्रे
गच्छति, इति ते णं' ते खलु ‘एवं' एवम्-अनेन वक्ष्यमाणाभिप्रायेण 'आहेसु' कथयन्ति, तमेव प्रकारमाह-'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'सयभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया णं' तदा खल 'दिवसराई तहेव' दिवस रात्री तथैव-तथा च उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिर्भवतीति, 'तंसि च णं दिवसंसि' तस्मिंश्च खलु दिवसे 'बावत्तरि जोयणसहस्साई' द्वासप्ततियोजनसहस्राणि-द्वासप्ततिसहस्नयोजनपरिमितं 'तावखेते पण्णत्ते' तापक्षेत्र प्रज्ञप्तम् । तथाहि-एतेषां तृनीयानां मते सूर्यः प्रतिमुहूत्तै चतुःसहस्रयोजनानि गच्छति सर्वाभ्यन्तरमण्डले अष्टादशमुहूत्तों दिवसो भवति ततश्चाष्टादशमुहूर्ताश्चतुःसहस्रैर्गुण्यन्ते तदा भवति द्वासप्ततिसहस्रयोयनप्रमाणं (७२०००) तापक्षेत्रमिति, 'ता' तावत् 'जया णं' यदा खलु 'सरिए सूर्यः 'सन्धबाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति 'तया ण' तदा खल 'राईदियं तद्देव' रात्रिन्दिवं तथैव, तथा च उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूत्तों दिवसो भवति, तंसि च णं' तस्मिश्च द्वादशमुहूर्तपरिमिते खलु 'दिवसंसि' दिवसे 'अंडयालीसं जोयणसहस्साई' अष्टचत्वारिंशद्योजनसहस्राणि अष्टचत्वारिंशत्सहस्रयोजनपरिमितं 'तावखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्तम् । कथ मिति दर्शयति-एपां तृतीयानां मते सूर्यस्य गमनं प्रतिमुहत्तं चतुश्चतुःसहस्रयोजनपरिमितमस्ति, सर्वबाह्यमण्डले च द्वादशमुहर्तपरिमितो दिवसो भवति तेन चतुःसहनसख्याद्वादशभिर्गुण्यते तदा समायाति अष्टचत्वारिंशत्सहस्रयोजनपरिमितं तापक्षेत्रम् , अनेन प्रकारेण ते कथयन्ति 'तया णं' तदा खलु 'चत्तारि चत्तारि जोयणसहस्साई' चत्वारि चत्वारि योजनसहस्राणि 'मूरिए' सूर्यः 'एगमेगेणं मुहुत्तणे' एकैकेन मुहूर्तेन 'गच्छई' गच्छति । मध्यमध्यमण्डलेपु पूर्वोक्तरीत्या तत्तन्मण्डलगतं तापक्षेत्रं सूर्यस्य निष्क्रमणसमये प्रवेशसमये हान्या वृद्धया चावसेयमिति एव सूर्यो यदा सर्वबाह्यमण्डलाद् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छति तदा मध्यमध्यमण्डलसचरणसमये यस्मिन् यस्मिन् मण्डले यावत्परिमितं दिवसपरिमाणं भवति तत्तत्संख्यया चतुः सहस्राणां गुणने गुणनफलपरिमितमेव तत्तन्मण्डले तापक्षेत्रं भवति । अनेन क्रमेण गच्छन् सूर्यो यदा सर्वाभ्यन्तरमण्डलं प्राप्नोति तदा सर्वाभ्यन्तरमण्डले गते सूर्ये तदेव पूर्वोक्तं तदभिमतं ताप क्षेत्रप्रमाणं द्वासप्ततिसहस्रयोजनपरिमितमायातीति ।३।।
__ अथ चतुर्थप्रतिपत्त्याभिप्रायमाह-'तत्य णं' इत्यादि । तत्थ णं' तत्र तापक्षेत्रविषये स्खल 'जे ते' ये ते चतुर्थास्तान्तरीयाः 'एवं' वक्ष्यमाणप्रकरेण 'आइंसु' कथयन्ति तदेवाह'छ वि पंच वि चत्तारि वि' पडपि पश्चापि चत्वार्यपि 'जोयणसहस्साई' योजनसहस्राणि पद सहस्रयोजनान्यपि, पञ्चसहनयोजनान्यपि चतु सहस्र योजनान्यपि च 'मरिए' सूर्यः ‘एग