________________
चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०१ मण्डले २ प्रतिमुहर्त सूर्यस्य गतेनिरूपणम् १९७
चारं चरइ' सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति 'तया गं' तसा खलु 'उत्तमकट्टपत्त उक्कोसए' उत्तमकाष्ठाप्राप्त उत्कर्षकः सर्वोत्कृष्टः 'महारसमुहुत्ते दिवसे भवइ' भष्टादश मुहूत्तों दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहत्ता राई भवइ' द्वादश मुहूर्ता रात्रिर्भवति, 'तंसि च णं दिवसंसि' तस्मिश्च खलु दिवसे अष्टादशमुहूर्तप्रमाणे 'नउई जोयणसहस्साई' नवति योजनसहस्राणि नवतिसहस्रयोजनपरिमितमित्यर्थः 'तारखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्तम् कथमेतदित्याह-एपां मते सूर्यः एकैकेन मुहूर्तेन पञ्च पञ्चसहनयोजनानि गच्छति सूर्यस्य सर्वाभ्यन्तरमण्डलसंचरणसमये दिवसः अष्टादशमूहत्तों भवति ततः पञ्चसहस्रसंख्या अष्टादशभिर्गुण्यते तत आयाति तापक्षेत्रस्य यथोकं परिमाणं नवतिसहस्रयोजनपरिमित (९००००) तस्मिन् दिवसे, इति एवमग्रे सूर्यस्य सर्वाभ्यन्तरमण्डलात् सर्ववाद्यमण्डलाभिमुखगमने मध्ये मध्ये प्रतिमण्डले दिवमपरिमाणस्य पञ्चसहनैर्गुणने तत्तन्मण्डलस्य दिवसस्य होनत्वेन हीनं हीनं तापक्षेत्रमायाति । एवं सर्वबाह्यमण्डलाभिमुखं सचरन् ‘जया णं' यदा खल्ल 'सववाहिरं मंडलं' सर्ववाह्य मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति सर्ववाह्यमण्डले आयाति 'तया णं' तदा खल 'उत्तमकट्ठपत्ता' उत्तमकाष्टाप्राप्ता परमप्रकर्षसम्पन्ना 'उवशोसिया' उत्कर्षिका सर्वगुर्वी 'अद्वारसमुहुत्ता राई भवई' मष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवड' द्वादशमुहूर्तों दिवसो भवति 'तंसि च णं' तस्मिंश्च द्वादशमुहूर्तपरिमिते खल 'दिवसंसि' दिवसे 'सद्विजोयण सहस्साई'षष्टियोजनसहस्राणि पष्टिसहस्रयोजनपरिमितं' 'तावखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्रज्ञप्तम् । अत्रापि दिवसमुहूर्तसंख्यां द्वादशपरिमितां पञ्चसहस्रैर्गुणयित्वा यथोक्तपरिमाणं षष्टिसहस्रयोजनरूपं परिभावनीयम् तत एवाह-'तया णं' तदा खल 'पंच पंच जोयणसहस्साई पञ्चपञ्चयोजनसहस्राणि 'सुरिए' सूर्यः 'एगमेगेणं मुहुत्तेणं गच्छई' एकैकेन मुहूर्तेन गच्छति अनेनाभिप्रायेण ते द्वितीयास्तीर्थान्तरीयाः सूर्यस्य एकैकमुहूर्तगम्यमार्ग पश्च पञ्च सहस्रयोजनपरिमितं कथयन्तीति । एवं यदा सर्वबाह्यमण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं सूर्यो गन्तुमारमते तदा मध्ये मध्ये तत्तन्मण्डलगतदिवसमुहूर्त्तसंख्यायाः पश्चसहस्रैर्गुणने तत्तन्मण्डलस्य तापक्षेत्रं वृद्धित्वेनायाति, एवं यदा सर्वाभ्यन्तरं मण्डलं सूर्यः प्राप्नोति तदा यथोक्तं नवतिसहस्रयोजनपरिमितं द्वितीयतीर्थान्तरीयाभिमतं तापक्षेत्रं भवतीति ॥२।।
अथ भगवान् तृतीयप्रतिपत्त्यभिप्रायं प्रदर्शयति-तत्थ ण' इत्यादि 'तत्थ णं' तत्र तापक्षेत्रविषये खलु 'जे ते' ये ते तृतीयास्तीर्थान्तरीयाः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति, तदेव दर्शयति-'चनारि चत्तारि जोयणसहस्साई चत्वारि चत्वारि योजनसह स्राणि चतुश्चतुः सहस्रयोजनानि 'सरिए' सूर्यः 'एगमेगेणं मुहुत्तण' एकैकेन मुहूर्तेन 'गच्छइ'