________________
चन्द्रप्रक्षप्तिसूत्रे नरहस्राणि अष्टसहस्रयोजनानि अष्टसहस्राधिकै कलक्षयोजनपरिमितं 'तावक्खेत्ते' तापक्षेत्रं 'पण्णत्ते' प्रज्ञप्तम् ।
अयं भावः-सूर्यो यदा सर्वाभ्यन्तरे मण्डले चारं चरति तदा दिवसोऽष्टादशमुहूत्तों भवति एकेन मुहूर्तेन च पट्सहस्रयोजनानि सूर्यो गच्छतीति कथितं ततोऽष्टादशसंख्या घट्सहस्रैर्गुण्यते ततो जातमेकं लक्षमष्टसहस्राधिकं (१०८०००) तापक्षेत्रप्रमाणम् । एवमग्रेऽपि मण्डले मण्डले निष्क्रमणकाले तसन्मण्डलसत्कहीनदिवसपरिमाण प्रतिमुहूर्तगतिपरिमाणेन पदसहस्रयोजनरूपेण गुणनात् तापक्षेत्रपरिमाणं हानिरूपेण प्रत्येकमण्डलस्य स्वयमूहनीयम् । एवं क्रमेण वहिनिष्क्रामन् 'सूरिए' सूर्यः 'ता' तावत् 'जया णं' यदा ग्वल 'सव्ववाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उपसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति, सूर्यो यदा सर्वबाह्यं मण्डलं प्राप्नोति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता 'उकोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवइ' अष्टादशमुहूर्ता रात्रिर्भवति, 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्ता दिवसो भवति, 'तंसि च णं दिवसंसि' तस्मिन् च खल दिवसे 'चावचरि जोयणसहस्साई द्वासप्तति योजनसहस्राणि द्वासप्तति (७२०००) सहस्रयोजनपरिमितं 'तावक्खेत्ते पण्णते' तापक्षेत्रं प्रज्ञप्तम् । 'तया णं तदा खलु 'छ छ जोयणसहस्साइं सुरिए एगमेगेणं मुहुत्तेणं गच्छइ' षट् षड्योजनसहस्राणि पट् षट् सहस्रयोजनानि एकैकेन मुहूतन गच्छाते । अत्रापि पूर्ववद् विभावनीयम् यथा-तापक्षेत्र तु दिवसे एव भवति ततो दिवसपरिमाणं गृह्यते सूर्यस्य सर्वबाह्यमण्डलसंचरणसमये दिवसस्य द्वादशमुहूर्ता भवन्ति, एक मुहूर्तस्य गमनकालः पट्सहनयोजनपरिमितस्तेनात्र द्वादशमुहूर्ताः षट्सहस्रैर्गुण्यन्ते जातं द्वासप्ततिसहस्रयोजनपरिमितं तापक्षेत्रमिति । एवमेव सर्वबाह्यमण्डलादभ्यन्तरं सूर्यस्य गमनकाले क्रमेण प्रतिमण्डलस्य तापक्षेत्रपरिमाणं वृद्धित्वेन स्वयं भावनीयम् , अनेन क्रमेण प्रविशन् सूर्यो यदा सर्वाभ्यन्तरं मण्डलं प्राप्नोति तदा तदेव अष्टसहस्राधिकलक्षपरिमितं तापक्षेत्र भविष्यतीति । अनेनामिप्रायेण ते प्रथमास्तीर्थान्तरीया एवं कथयन्तीतिभाव. ॥१॥
अथ भगवान् द्वितीयप्रतिपत्तिवादिनामभिप्रायं प्रदर्शयति-तत्थ णं' इत्यादि 'तत्थ णं' तत्र चतुर्पु मध्ये खलु 'जे ते' ये ते द्वितीयप्रतिपत्तिवादिनः 'एवमासु' एवमाहुः-'ता' तावत् 'पंचपंच जोयणसहस्साई' पञ्च पश्च योजनसहस्राणि पश्चसहस्रयोजनानि 'मुरिए' सूर्यः एगमेगेणं मुहुत्तेणं गच्छई एकैकेन मुहूर्तेन गच्छति, इति ये वदन्ति 'ते एबमासु' ते द्वितीयास्तीर्थान्तरीयाः एवम्-अनेन वक्ष्यमाणेन अभिप्रायेण आहुः कथयन्ति, तमेवाभिप्रायं प्रदर्शयति-'ता जया गं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु सरिए' सूर्यः 'सबभतरं मंडलं उसकमित्ता