SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२-३ सू०१ मण्डले २ प्रतिमहत्तं सूर्यक्ष्य गतेनिरूपणम् ११९ मेगेणं मुहुत्तेणं' एकैकेन मुहूर्तन 'गच्छइ' गच्छति, इति ये कथयन्ति 'ते' ते पूर्वोक्तरूपेण वकारः ‘एवं' एवम् अनेन वक्ष्यमाणेनाभिप्रायेण 'आहेसु' आहुः-कथयन्ति तच्छ्रयताम्'ता' तावत् 'यरिए' सूर्यः 'उग्गमणाहुत्तंसि' उद्गमनमुहूर्त एवम् 'अस्थमणमुहुत्तंसि य' अस्तमयनमुहर्ने च उदयकाले अस्तकाले चेत्यर्थः 'सिग्धगई भवई' शीघ्रगतिर्भवति ततः 'तया गं' तदा उदयास्तसमये खलु सूर्यः 'छ छ जोयणसहस्साई' पट् षड्योजनसहस्राणि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छड' गच्छति, सूर्य उदयास्तकाले शीघ्रगतित्वेन एकस्मिन् मुहूर्त पट्सहस्रयोजनपरिमितं क्षेत्रं पारयतीति भावः ततः पश्चात् 'मझिम तावखेत्त' मध्यमं तापक्षेत्रं 'समासाएमाणे २' समासादयन् २ प्रापयन्२ 'मूरिए' सूर्यः मज्झिमगई भवइ' मध्यमगतिर्भवति 'तया णं तदा तस्मिन् काले खल 'पंचपंचजोयणसहस्साई' पञ्चपञ्चयोजनसहस्राणि पञ्चपञ्चसहस्रयोजनानि 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन 'गच्छई' गच्छति । तथा 'मज्झिम तावखेत्तं' मध्यमं तापक्षेत्रं 'संपत्ते' सम्प्राप्तो भवेत् तदा 'सूरिए' सूर्यः 'मंदगई भवई' मन्दगतिर्भवति 'तया णं' तदा खलु 'चत्वारि चत्तारि जोयणसहस्साई' चत्वारि चत्वारि योजनसहस्राणि चतुश्चतुःसहस्रयोजनानि 'एगमेगेणं मुहुत्तेणं गच्छइ' एकैकेन मुहूर्तेन गच्छति, यदा सूर्यो मध्यमतापक्षेत्रेऽधिरूढो भवति तदा मन्दगतित्वेन एकैकस्मिन् मुहूत चतुश्चतुःसहस्रयोजनपरिमितमेव क्षेत्रं पारयितुं शक्नोति न ततोऽधिकमिति भावः । एवं भगवता कथिने सति गौतमः पृच्छति-'तत्थ' तत्र सूर्यस्य एवं गमने 'को हेऊ' को हेतुः किं कारणम् 'त्तिवएज्जा' इति वदेत् तद्गतिकारणं कथयतु भगवन् ! . एवं गौतमेन पृष्टे भगवान् तत्कारणं प्रतिपादयति-ता अयं णं' इत्यादि । 'ता' तावत् 'अयं णं' अयं लोकप्रसिद्धः खलु 'जंबुद्दीवे दीवे' जम्बूद्वोपो द्वीपः मध्यजम्बूद्वीपः जम्बूद्वापस्य वर्णनं सर्वमत्र वाच्यम् , कियत्पर्यन्तम् ? इत्याह 'जाव परिक्खेवेणं पण्ण' यावत् परिक्षेपेण प्रज्ञप्तः परिधिपर्यन्तं वाच्यम् । 'ता' तावत् 'जया णं' यदा खलु 'रिए' सूर्यः 'सव्वम्भर मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं तदा खल्ल 'उत्चमकट्ठपचे' उत्तमकाष्ठाप्राप्तः 'उक्कोसए' उत्कर्षकः 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति 'जहणिया' जन्यिका सर्वलध्वी 'दुवालसमुहत्ता राई भवई' द्वादशमुहर्ता रात्रिर्भवति । 'तं सि च णं' तस्मिन् च खलु पूर्वोक्तप्रमाणे 'दिससंसि' दिवसे 'एक्काणउई' एकनवतिं 'जोयणसहस्साई योजनसहस्राणि एकनवतिसहस्रयोजनपरिमितं 'तावखेत्ते पण्णत्ते' तापक्षेत्रं प्रज्ञप्तम् ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy