________________
चन्द्रप्रकाशिका टीका प्रा०२-१ सू० १ सूर्यस्य द्वितीयपण्मासाहोरात्रे क्षेत्रसंचारणम् १०७
'वरिया' द्वौ सूर्यै 'उत्तिति' उत्तिष्ठतः उद्गच्छतः, तत्रैको भारतः सूर्यो दक्षिणपौरस्त्ये मण्डलचतुर्भागे, अपर ऐरखतः सूर्यश्च उत्तरपौरस्त्ये मण्डलचतुर्भागे उद्गच्छति, एवं क्रमेण द्वावपि सूर्यैौ तत्र तत्र स्थाने उदयं प्राप्नुत इतिभावः 'ते णं, ता खलु द्वौ सूर्यो यथाक्रमम् 'इमाई' इमो 'दाहिणुत्तराई' दक्षिणोत्तरौ जंबुद्दीवभागाई' जम्बद्वीपभागौ 'तिरियं करेंति' तिर्यक् कुरुतः प्रकाशयतः । अयमाशयः - दक्षिणपौरस्त्ये मण्डलचतुर्भागे भारत: सूर्य उद्गत्य तिर्यक् परिभ्रमन् मेरोर्दक्षिणभागं प्रकाशयति, उत्तरपाश्चात्ये मण्डलचतुर्भागे ऐरवतः सूर्य उद्गन्य तिर्यक् परिभ्रमन् मेरोरुत्तरभागं प्रकाशयतीति, 'द्वीकरिता ' कृत्वा जम्बूद्वीपस्य दक्षिणोत्तरभागौ प्रकाश्य 'पुरत्थिमपच्चत्थिमाई' पौरस्त्यपाश्चात्यो 'जंबुद्दीवभागाई' जम्बूद्वीपभागों जम्बूद्वीपस्य पूर्वपश्चिमभागौ पूर्वपश्चिमभागद्वयं 'तमेव राओ' तस्यामेव रात्रौ कुरुतः तत्तद्दिवसस्य -रात्रिभागौ कुरुतः जम्बूद्वीपस्य दक्षिणोत्तरभागयोः सूर्यद्वयस्य संचरणसमये पूर्वपश्चिमभागे रात्रभवति, तदा नैकोऽपि सूर्य पूर्वभागं पूर्वपश्चिमभागं वा प्रकाशयितुं शक्यतेऽतस्तदा पूर्वपश्चिमजम्बूद्वीपभागे रात्रि र्भतीति भावः । द्वौ सूर्यो दक्षिणोत्तरभागयोस्तिर्यक्करणानन्तरं पूर्वपश्चिमभागौ तिर्यकू कुरुत इतिक्रमप्रदर्शनार्थं 'करिता' इत्युध्यते । पुनश्च 'ते णं' तौ खलु द्वावपि सूर्यो दक्षिणोस्तरभागदिवससमाप्त्यनन्तरम् ‘इमाई' इमौ प्रसिद्धौ 'पुरत्थिमपच्चत्थिमाई पौरस्त्यपाश्चात्यौ पूर्वपश्चिमरूपौ 'जंबुद्दीवभागाई' जम्बूद्वीपभागौ ' तिरियं करेंति' तिर्यक् कुरुतः पूर्वपश्चिमभागौ प्रकाशयतः । अयं भावः–मेरोरुत्तरभागे ऐरवतः सूर्यस्तिर्यक् परिभ्रम्य तत्पश्चात् मेरोरेव पूर्वदिशि तिर्यक्परिभ्रमति, भारतः सूर्यश्च पूर्व मेरोर्दक्षिणभागे तिर्यक्परिभ्रम्य तत्पश्चात् मेरोः पश्चिमभागे तिर्यक्परिभ्रमतीति । 'करिता' कृत्वा जम्बूद्वीपपूर्वपश्चिमभागौ तिर्यक् कृत्वेत्यर्थः ' दाहिणुत्तराई ' दक्षिणोत्तरौ 'जंबुद्दीवभागाई' नम्बूद्वीप भागौ जम्बूद्वीपस्य दक्षिणभागम् उत्तरभागं च ' तामेव राओ' तस्यामेव रात्रौ कुरुतः । मयं भावः - यदा द्वौ सूर्यौ क्रमेण पूर्वपश्चिमभागौ प्रकाशयतस्तदा दक्षिणभागे उत्तरभागे च रात्रिर्भवेत्, सूर्ययोः पूर्वपश्चिमभागसंचरणसमये उत्तरदक्षिणभागयोरेकोऽपि सूर्यः प्रकाश न करोतीति । एवं 'ते णं' तौ खलु सूर्यौ 'इमाई' इमौ पूर्वप्रदर्शितौ दाहिणुत्तराई' दक्षिणोत्तरौ, तथा 'पुरत्थिमपच्चत्थिमाई य' पौरस्त्यपाश्चात्यौ च 'जंबुदीवभागाई' जम्बूद्वीपभागौ ' तिरियं करेंति' तिर्यक् कुरुतः प्रकाशयतः 'करिता' कृत्वा जम्बूद्वीपस्य दक्षिणोत्तरभागौ पूर्वपश्चिमभागौ च क्रमेण प्रकाश्य 'जंबुद्दीवस्त दीवस्स' जम्बूद्वीपस्य द्वीपस्य ' पाईणपडिणायय - 'उदीचीणदाहिणाययाए' प्राची प्रतीच्यायतोदीची दक्षिणाय तया पूर्वात् पश्चिमपर्यन्तमायतया दीर्घया उत्तरात् दक्षिणपर्यन्तमायतया दीर्घया 'जीवाए' जीवया जीवाः प्रत्यश्चा तत्सदृशत्वात् जीवा तथा जीवया दवरिकयेत्यर्थः 'मंडल' सूर्यमण्डलं 'चउव्वीस एण सएणं' चतुर्विंशत्यधिकेन शतेन 'छेत्ता' विभज्य मण्डलस्य चतुर्विंशत्यधिकसंख्यकान् भागान्
.