SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९० चन्द्रप्रक्षप्तिसत्रे ___कथमायामविष्कम्भयोः परिधेश्च परिमाणमेतावत्परिमितमुपलभ्यते । इति प्रदर्शयामः, तत्र पूर्वमायामविष्कम्भपरिमाणं प्रदर्श्यते, तथाहि -सर्वाभ्यन्तरमण्डलात् सर्वबाह्यं मण्डलं त्र्यशीत्यधिकैकशततमं (१८३) वर्तते, प्रत्येकस्मिन् मण्डले च विष्कम्भे २ पञ्चपञ्च योजनानि पञ्चत्रिंशच्चैकपष्टिभागाः ( ५३१) योजनस्य वर्द्धन्ते ततः एतत् त्र्यशीत्यधिकैकशतेन गुण्यते, तत्र पञ्च योजनानां व्यशीत्यधिकशतेन गुणने जातानि पञ्चदशोत्तरनवशतानि योज नानि (९१५) एकषष्टिभागानां त्र्यशीत्यधिकशतेन गुणने जातानि पञ्चाधिकचतुःशतोत्तराणि षट् सहस्राणि, (६४०५) एतावन्त एक पष्टिभागाः जाताः, एषां योजनानयनार्थ मेकपष्टया ६१ भागो हियते, लब्धं पञ्चोत्तरं शतम् (१०५) एषा योजनसंख्या लब्धा, एतां पूर्वलब्धयोजनराशौ पञ्चदशाधिकनवशत (९१५) रूपे प्रक्षिप्यते तदा जातं विशत्यधिकमेकं सहस्रम् (१०२०) एपोऽङ्कसमुदायः सर्वाभ्यन्तरमण्डलायामविष्कम्भपरिमाणे (९९६४०) ऽधिकत्वेन प्रक्षिप्यते ततो जायते यथोक्तं पष्ट्यधिक पट्ट शतोत्तरैकलक्ष (१००६६.) रूपं परिमाणमायामविष्कम्भयोर्भवतीति । अथ परिधिपरिमाणं कथं लभ्यते ? इति प्रदीते, तथाहिपरिक्षेपपरिमाणे यत् 'पञ्चदशोत्तराणि' इति कथितं तानि पञ्चदशोत्तराणि किश्चिन्न्यूनानि ज्ञातव्यानि । तथाहि-अस्य मण्डलस्यायामविष्कम्भपरिमाण षष्टयधिकषट्शतोत्तरमेकं लक्षम् (१००६६०), अस्य वर्गकरणात् जातम् एककः शून्यमेककस्त्रिको दिकश्चतुष्कस्त्रिकः पञ्चकः षट्को द्वे शून्ये (१०१३२४३५६००) इति ततो दशभिर्गुणने जातमेकं शून्यमधिकम् (१०१३२४३५६०००) अस्य वर्गमूलानयने लन्धानि-चतुर्दशोत्तरशतत्रयाधिकाष्टादशसहस्रोत्तरलक्षत्रयम् (३१८३१४), शेषमवतिष्ठते-चतुरुत्तरचतुःशताधिकत्रिपश्चाशत्सहस्रोत्तरं लक्षपश्चकम् (५५३४०४) छेदराशिः अष्टाविंशत्यधिकपदेशतोत्तरपत्रिंशत्सहस्राधिकं लक्षपटकम् (६३६६२८)। एवं रीत्या पञ्चदशतमं योजनं किंचिदूनं प्राप्यते तथापि व्यवहारनयमतेन सूत्रकृता परिपूर्ण विवक्षाया पञ्चदशोत्तराणीत्युक्तम् । अथवा द्वितीयप्रकारेण प्रदश्यन्ते-पूर्वपूर्वमण्डलमधिकृत्याऽग्रेड प्रतिमण्डले परिधिवृद्धौ सप्तदश सप्तदश योजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य(१७३८) प्राप्यन्ते तत एते त्र्यशीत्यधिकशतेन गुण्यन्ते, तत्र पूर्व योजनानां गुणने जातानि-एकादशोतरैकशताधिकानि त्रीणि सहस्राणि (३१११), ततो येऽष्टत्रिंशदेकषष्टिभागास्तेऽपि व्यशीत्यधिकशतेन गुण्यन्ते, जातानि चतुष्पञ्चाशदधिकनवशतोत्तराणि षट् सहस्राणि (६९५४), एतेषां योजनकरणार्थमेकषष्ट्या भागो हियते, तेन लब्धं चतुर्दशोत्तरमेकं शतम् (११४), एतानि योजनानि लब्धानि, तानि पूर्वोक्ते गुणनफलमूते योजनराशौ (२११४) प्रक्षिप्यन्ते ततो जातानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy