________________
चन्द्राप्तिप्रकाशिका टोका प्रा०१-८ सू०१४ . मण्डलपदानां प्रमाणनिरूपणम् ८६ प्रक्षेपकराशिरस्ति किन्तु सूत्रकृता व्यवहारनयमनुसृत्य परिपूर्णाष्टादशयोजनानि कथितानि लोके हि व्यवहारनयेन किञ्चिदूनराशेरपि परिपूर्णत्वेन व्यवहियमाणत्वात् । पूर्वमण्डलपरिमाणे 'किंचिविसेसणं' इति प्रोक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते । तथाचोक्तम्--
"सत्तरसजोयणाई अतीसं च एगसद्विभागा, एवं निच्छएणं, सववहारेण पुण अट्ठारसजोयणाई" इति 'सप्तदशयोजनानि अष्टत्रिंशच्च एकषष्टिभागा एतत् निश्चयेन, सव्यवहारेण पुनः अष्टादशयोजनानि" इति छाया ।
"तया ण' तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति किन्तु सः 'चउर्हि एगसद्विभागमुहुत्तेहि' चतुभिरैकपष्टिभागमुहूर्तेः 'उणे' उनः हीनो भवति, तथा 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति, सा च 'चउहि एगसहिभागमुहुत्तेहि' चतुभिरैकपष्ठिभागमुहत्तैः 'अहिया' अधिका भवति । 'एवं' एवम् अनेनैव प्रकारेण खलु 'एएणं' एतेन पूर्वोक्केन 'उवाएणं' उपायेन विधिना 'णिक्खममाणे सरिए' निष्कामन् सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् पूर्वमण्डलादनन्तरस्थितात् यत्र सूर्यो वर्तते तस्मादित्यर्थः मण्डलात 'तयाणंतरं मंडलं' तदनन्तरं मण्डलं तदने स्थितं मण्डलम् 'उवसंक्रममाणे २, उपसंक्रामन् २ 'पंच जोयणाई' पञ्च योजनानि 'पणतीसं च एगसहिभागे जोयणस्स' पञ्चत्रिंशतं च एकपष्टिभागान् योजनस्य 'एगमेगे मंडले. एकैकस्मिन् मण्डले प्रत्येकमण्डले इत्यर्थः 'विक्खंभवुढि' विष्कम्भवृद्धिम् 'अभिवुड्ढेमाणे २' अभिवर्धयन २ तथा 'अट्ठारस २ जोयणाई अष्टादश २ योजनानि 'परिरयबुटि' परिरयवृद्धि परिधिवृद्धिम् 'अभिवड्ढेमाणे २' अभिवर्धयन् 'सव्ववाहिरं मंडलं' सर्ववाह्यं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य धारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'सव्ववाहिरं मंडलं' सर्वबाह्यं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं सा मंडलवया' तदा खल तत् मण्डलपदम् 'अडयालिसं एगसहिभागा जोयणस्स' अष्टचत्वारिंशदेकपण्टिभागा योजनस्य 'वाहल्लेणं' बाहल्येन सन्ति 'एगं जोयणसहस्सं' एक योजनसहस्रं 'छच्च सही जोयणसयाई' षट् षष्टिः योजनशतानि षष्टयघिकानि पट् शतानि योजनानां षष्ट्याधिकपट्शतोत्तरैकलक्षयोजनानि (१००६६०) 'आया मविक्खंभेणं' आयामविष्कम्भेण तथा 'तिन्नि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि 'अट्ठारससहस्साई' अष्टादशसहस्राणि 'तिण्णि य पण्णरमुत्तराई जोयणसयाई' प्रीणि च पञ्चदशोत्तराणि योजनशतानि-पञ्चदशाधिकत्रिशतोत्तराष्टादशसहस्राधिकत्रिलक्षयोजनानि (३१८३१५) परिक्खेवेणं' परिक्षेपेण परिधिना वर्तन्ते ।
१२