________________
चन्द्राप्तिप्रकाशिका टीका ग्री०१-८ सू०१४ मण्डलंपदांना प्रमाणनिरूपणम् ९३ पञ्चविंशत्यधिकद्विशतोत्तराणि त्रीणि सहस्राणि (३२२५) एषोऽकसमुदायः सर्वाभ्यन्तरमण्डलपरिमाणे नवाशीत्यधिकपंचदशसहस्रोत्तरत्रिलक्ष (३१५०८९) रूपेऽधिकत्वेन प्रक्षिप्यते, तेन जातानि चतुर्दशोत्तरत्रिशताधिकाष्टादशसहस्रोत्तराणि त्रीणि लक्षाणि (३१८३१४) इति सूत्रोकं परिधिपरिमाणमुपलब्धम् ।
तथा सप्तदशयोजनानाम् , अष्टत्रिंशदेकपष्टिभागानामुपरि पञ्चसमत्यधिकानि त्रीणिशतानि (३७५) शेषत्वेनोद्धरन्ति तानि ज्यशीत्यधिकशतेन गुणनात् जातानि पञ्चविंशत्यधिकपटशतोत्तराणि अष्टपष्टिसहस्राणि (६८६२५)एतेषां पञ्चाशदधिकशतोत्तरसहस्रद्वयरूपेण (२१५०) छेदराशिना भागो हियते तदा लब्धा एकत्रिंशदेकपष्टिभागा योजनस्य, शेषमल्पत्वात्त्यकम् । परं मूत्रकृता व्यवहारनयमतेन परिपूर्णयोजनविवक्षया 'पञ्चदशोत्तराणि" इत्युक्तम् ।
एवं यदाऽऽयामविष्कम्भपरिधिपरिमाणं भवति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ता' उत्तमकाष्टा प्राप्ता परमप्रकर्षसम्पन्ना 'उकोसिया' उत्कर्पिका सर्वोत्कृष्टा सर्वगुर्वीयतोऽनन्तरमाधिक्याभावात् 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिभवति, तथा 'जहण्णए' जघन्यकः सर्वलघुः यतोऽनन्तरं लाघवाभावात् 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहत्तों दिवसो भवतीति । 'एस णं' एतत् खलु 'पढमे छम्मासे' प्रथमं षण्मासम् । 'एस णं' एतत् खलु 'पढमस्स छम्मासस्स' प्रथमस्य पण्मासस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रम् । यतोऽने सूर्यस्य चारक्षेत्राभावात् ॥सू०१४॥
॥ एतद रात्रिद्धिरूपं प्रथमं पण्मासम् ।। गत सूर्यसंवत्सरस्य मण्डलपदरूपं प्रथमं षण्मासम् साम्प्रतं तत्सम्बद्धमेव द्वितीयं षण्मासं. प्ररूप्यते, तस्येदमादिसूत्रम्-‘से पविसमाणे सुरिए' इत्यादि ।
मूलम्-से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगसहिभागा जोयणस्स बाहल्लेणं, एग जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसयाई छब्बीसं च एगसहिभागा जोयणस्स आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साई अट्ठारससहस्साई दोण्णि य सत्ताणउए जोयणसयाई परिक्खेवेणं, तया णं अट्ठारसमुहुत्ता राई भवइ दोहि एगसहिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवई दोहिं एगसहिभागमुहुत्तेहि अहिए । से पविसमाणे सूरिए दोच्चंसि अहोरत्तसि वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ