________________
विपाकचन्द्रिका टीका, श्रु. १, अ० ९, देवदत्तावर्णनम्
६२७ युवराजः। 'तए णं तस्स सीहसेणस्स' ततः खलु तस्य सिंहसेनस्य 'कुमारस्स कुमारस्य 'अम्मापियरो' अम्बापितरौ 'अण्णया कयाई अन्यदा कदाचित् 'पंचपासायडिसयसयाई' पञ्चप्रासादावतंसकशतानि 'कोरेति' कारयतः कीदृशानि? 'अब्भुग्गय०' 'अब्भुग्गयमूसियपहसिए विव' अभ्युद्गतोच्छूितानि अत्यन्तोच्चानि, प्रहसितानीव, हसितुमारब्धानीवेत्यर्थः, इत्यादि सर्व प्रासादावतंसकवर्णनं झाताधर्मकथाङ्गसूत्रादितोऽवसेयम् । 'तए णं तस्स सीहसेणस्स' ततः खलु तस्य सिंहसेनस्य कुमारस्य 'अम्मापियरो' अम्बापितरौ 'अण्णया कयाई' अन्यदा कदाचित् 'सामापामोक्खाणं' श्यामाप्रमुखानां 'पंचण्ह' पञ्चानां 'रायवरकण्णगसयाणं' राजवरकन्यकाशतानाम् ‘एगदिवसेणं' एकदिवसे (अत्र सप्तम्यर्थे तृतीया) 'पाणिं' पाणि हस्तं 'गिण्हावेति' ग्राहयतः । 'पंचसयओ दाओ' पञ्चशतको दाया