________________
चूर्णिभाष्यावचूरिः उ० २ सू० ४६-४८ सागारिकपिण्डग्रहणोपभोगाशातत्कुल प्रवेशनि० ६७ पिण्डं भक्तादिकम् 'गिण्हई' गृह्णाति-स्वीकरोति 'गिण्हतं वा' गृह्णन्तं वा-स्वीकुर्वन्तं स्वदते स प्रायश्चित्तभाग् भवति ।। सू० ४६ ।।
संप्रति सागारिकस्य षड् द्वाराणि प्राह-- भाष्यम्--सागारियस्स दाराणि, अणेगाणि हवंति खु ।
ताई सव्वाइं जाणंतु, जहासत्थं वियक्खणा॥ छाया-सागारिकस्य द्वाराणि अनेकानि भवन्ति खलु ।
तानि सर्वाणि जानन्तु यथाशास्त्र विच क्षणाः ॥ अवचूरि:--'सागारियस्त' इत्यादि । सागारिकस्य-शय्यातरस्य द्वाराणि अनेकानिअनेकप्रकारकाणि भवन्ति, तानि सर्वाणि यथाशास्त्रं-शास्त्रप्रतिपादितप्रकारेण विचक्षणा:-बुद्धिमन्तो जानन्तु ।
सागारिकस्य सप्त द्वाराणि भवन्ति, अत्र तत्संग्राहकं गाथाद्वयम् , तथाहि
"सागरिक इति को वा १, कदा शय्यातरो भवेत् २। कतिविधश्च तत्पिण्डः ३, अशय्यातरकः कदा ४ ॥१॥ त्याज्योऽसौ कस्य विज्ञेयो ५, दोषाः पिण्डग्रहे च के ६।
अनेकेषु च तेषु स्यादेकः सागारिकः पुनः ७ ॥२॥” इति तथा च तदर्थः-कः पुनः सागारिकः शय्यातरो भवतीति प्रथमद्वारम् १, कदा स शल्यातरो भवतीति द्वितीयद्वारम् २, कतिप्रकारकः शय्यातरपिण्डः इति तृतीयाद्वारम् ३, अशय्यातरः स कदा भवतीति चतुर्थद्वारम् ४, स च कस्य त्याज्यो भवति, इति पञ्चमं द्वारम् ५, दोषाः पिण्डग्रहे च के, इति षष्ठं द्वारम् ६, अनेकेपु द्वित्रादिषु सागारिकेपु वा एको ग्रहीतव्यः, इति सप्तमं द्वारम् ७ । 'सागारिक इति को वा' इति प्रथमं द्वारमाह-तत्र-अगारेण गृहेण यत् सहितं तत्सागारं, तसंयोगात् सागारिक इति, अस्य पञ्च नामानि एकार्थकानि नानाव्यञ्जनानि सन्ति, तथाहि-सागारिकः १, शय्यातरः २, शयदाता ३, शय्याधरः ४, शय्याकरः ५, इति । तत्र सागारिकशब्दस्यार्थः पूर्वमुक्त एव १, साधवे शय्यादानेन भवं तरतीति शय्यातरः २, शय्यादाता-साधवे शय्यादानात् ३, शय्याधरः-साधवे शय्यादानेन धरति आत्मानं दुर्गतेरुद्धरतीति ४, शय्याकरः-यस्मात् शय्यां करोति तस्मात् शय्याकरः ५, इति । 'सागारिक इति को वा' इति प्रथमं द्वारम् १ । 'कदा शय्यातरो भवेत्' इति द्वितीयं द्वारमाह-यस्मिन् काले वसतो वस्तं यत्सकाशाद् आज्ञा गृह्यते स तस्मात्कालादेव शय्यातरो भवेदिति द्वितीयं द्वारम् २ । 'कतिविधश्च तत्पिण्डः' इति तृतीयं द्वारमाह-शय्यातरपिण्डो द्विविधो भवति माहारः-उपधिश्च । चतुर्विधो वा भवति,