________________
६६
निशीथस्त्रे
wwwwwwwwwww
अत्राह भाग्यकार:भाष्यम्-जावइयं उवजुत्तं, गिण्हेज्जा तावमेत्तमसणाइ ।
साहुस्स अहियगहणे, दोसा लोभाइणो होति ॥ छाया-यावत्कमुपयुक्तं गृहीयात् तावन्मात्रमशनादि ।
साधोरधिकग्रहणे दोपा लोभादयो भवन्ति ॥ अवचूरिः-'जावइयं उवजुत्तं' इत्यादि । साधूनां यावन्मात्रमुपयुक्तमाहारादिकं स्यात् तावन्मात्रमाहारं गृह्णीयात्-श्रावकगृहादानयेत् न तु ततोऽधिकग्रहणं कुर्यात् , प्रमाणादधिकाहारग्रहणे साधोः पुनर्लोभादयो दोषा भवन्ति । तथाहि-प्रमाणतो यावदेवोपयुक्तं तावन्मात्रमेवाहारादिकं गृह्णीयात् । अधिकग्रहणे लोभदोषः । तथा-तस्य परिष्ठापने परिष्ठापनादोपः । आज्ञाभङ्गादिकाश्चाऽपि दोषाः, तत्र-एकेन्द्रियादीनां विराधनात् । अधिकभोजनकरणे विपूचिकादयो रोगाः इत्यात्मविराधनम् , यस्मादेते दोषाः तस्मात् कारणात् प्रमाणादधिकमाहारादिकं न ग्रहीतव्यम् । अत्र शिप्यः प्राह-हे गुरो ! यदि प्रमाणयुक्तमेवाहारादिकं अहिप्यति तदा-मधिकं न भवति, अथ-यदि अधिकम् तदा प्रमाणतो ग्रहणमिति वाक्यं निरर्थकम् , एवं परस्परविरोधे सूत्रं निरर्थकमेव भवति ? आचार्यः प्राह-सूत्रं सार्थकमेव न निरर्थकम् । तथाहि-यत्र प्रामे नगरे वा वहूनि श्रावककुलानि-अतिभावयुक्तानि सन्ति, तत्र भिक्षाथै गतस्य साधोमनोज्ञमितिकृत्वा तैर्मावतोऽधिकं पात्रे निपातितं भवेत् , तच्च साधुरानीतवान् , एवमधिकं भवेदिति । तत्र यदधिकं तद् यदि क्रोशद्वयदूरे सांभोगिकसाधूनां निवासो भवेत् तदा तेपामावश्यकतायां तत्र गत्वा दद्यात् । तत्र प्रच्छनेऽयं क्रमः-यदि कृतेऽपि भोजनेऽधिकमवशिष्ट माहारो भवेत् तदा-प्रथमतः स्वग्रामे स्वकीये उपाश्रये च ये सांभोगिका भवेयुस्ते पूर्व प्रष्टव्याः । यदि ते न स्वीकुर्युः तदा स्वप्रामेऽन्योपाश्रये ये भवेयुस्ते सांभोगिकाः प्रष्टव्याः, यदि स्वीकुर्युस्तदा तेभ्यो देयम् । अथ यदि ते न स्वीकुर्युस्तदा स्वक्षेत्रेऽन्यग्रामे प्रष्टव्याः, ते यदि स्वीकुर्युस्तदा सम्यक् । नो चेत्, तदा स्वक्षेत्रावहिरन्यनामे किन्तु क्रोशद्वयाभ्यन्तरे यदि सांभोगिका भवेयुस्ते प्रष्ठव्याः, एवं क्रमशः साधवः प्रष्टव्याः एवमनापृच्छयैव यद्यधिकमाहारं साधुः परिष्ठापयेत्तदा-आजाभङ्गादिदोपभाग् भवतीति ॥सू० ४५॥
सूत्रम्-जे भिक्खू सागारियं पिंडं गिण्हइ, गिण्हतं वा साइज्जइ ॥ छाया-यो भिक्षुः सागारिक पिण्डं गृह्णाति गृहन्तं वा स्वदते ॥ सू० ४६ ॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यो भिक्षुः 'सागारियं पिंडं' सागारिक पिण्डं, तत्र-सागारिकः-उयाश्रयाधिपतिः साधोः स्थानदाता शय्यातरो गृहस्थः, तस्य