________________
चूर्णिभाष्यावचूरिः उ०२ सू०४५ सांभोगिकपृच्छां विनाऽधिकाहारपरिष्ठापननिषेधः ६५
अवचूरिः- 'वण्णगंध' इत्यादि । यत्पानकनातं वस्तु, वर्ण-गन्ध-रसोपेतं-सुवर्णेन सुगन्धेन सुरसेन मधुरादिना युक्तं भवेत् तद्-द्रव्यं पुष्पसंज्ञकं भवति । तथा-यत्पानकजातं दुर्गन्धादि. विशिष्टं दुर्वर्णेन कुत्सितगन्धेन कुरसेन कठोरस्पर्शेन युक्तं तत् कषाय-कलुषितं भवेत् । तत्र कषायं पानकजातं पूर्वमापेयं, तदनन्तरं पुष्पकं पिवेत् , एष शास्त्रविधिः अनन्तवरज्ञानिमिस्तीर्थकरैरुक्तः, अतः पुष्पकं कषाय चैतवयमप्यानीय यत्पुष्पकं तत् पीत्वा यत्कपायं तस्य परिष्ठापनं न कुर्यात् , किन्तु प्रथमं पुष्पकं पीत्वा पश्चात् कषायं पिबेत् । उक्तञ्च -
शास्त्रकर्तुश्च मर्यादा, कपायं प्रथमं पिवेत् ।
आज्ञाभङ्गादिकान् दोपान् पश्यन् पश्चात्तु पुष्पकम् ॥१॥ अन्यथा प्रायश्चित्तभाग भवेत् ॥ सू० ४४ ॥
सूत्रम्-जे भिक्खू मणुण्णं भोयणजायं पडिग्गाहेत्ता बहुपरियावन्नं सिया अदूरे तत्थ साहम्मिया संभोइया समणुन्ना अपरिहारिया संता परिवसति ते अणापुच्छिय अणिमतिय परिहवेइ परिडवेतं वा साइज्जइ ॥
छाया-यो भिक्षुर्मनोशं भोजनजातं प्रतिगृह्य बहुपर्यापन्नं स्यात् अदूरे तत्र साधर्मिकाः सांभोगिकाः समनोशा अपरिहार्याः सन्तः परिवसन्ति तान् अनापृच्छय अनिमन्त्र्य परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥सू० ४५॥
चूर्णी-जे भिक्खू' इत्यादि। 'जे भिक्खू' यो भिक्षुः 'मणुण्णं भोयणजायं' मनोज्ञ भोजनजातम्-शुभ-वर्ण-गंध-रस-स्पर्शसमन्वितमुत्तमभोजनजातम् अनेकप्रकारकमाहारादिकम् 'पडिग्गाहेत्ता' प्रतिगृह्य-आनीय भुक्ते । तच्च यदि 'परियावन्न सिया' पर्यापन्नं स्यात्-प्रयोजनतोऽधिकं भवेत् 'अरे तत्थ साहम्मिया' अदूरे तत्र-न दूरमदूरम्-मासन्नम् क्रोशद्वयान्तरावधौ ग्रामादौ साधर्मिकाः-समानधर्माचरणशीलाः साधवः 'संभोइया' सांभोगिकाः, यैः सहैकमण्डल्यामाहारादिक कत्त कल्पते तथाविधाः साधवः 'समणुन्ना' समनोज्ञाः उद्यतविहारिणः, एतादृशाः पूर्वोक्तविशेषणविशिष्टाः सन्तोऽपि सातिचारत्वेनाऽदेयाहारा भवेयुस्तत्राह-'अपरिहारिया' अपरिहार्याः, निरतिचारचारित्रत्वेनापरित्याज्याः, निरतिचारा इत्यर्थः । एतादृशाः साधवो यथासन्ने 'संता' सन्तः विद्यमानाः 'परिवसंति' क्रोशद्वयपरिमिते ग्रामादौ तिष्ठन्ति तदा ते अणापुच्छिय' तान्-अनापृच्छयाऽपृष्ट्वा 'अणिमंतिय' अनिमन्त्र्य, तेषां निमन्त्रणमकृत्वा, 'मत्सविधे-एतावदधिकं जातं, तस्य यदि भवतां प्रयोजनं भवेत्-तदा-गृह्णन्तु भवन्तः' एवंप्रकारेण तेषामामन्त्रणमकृत्वा अपृष्ट्वेत्यर्थः यदि 'परिहवेंति' परिष्ठापयन्ति, यद्वा 'परिहवेत साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवतीति ॥ सू० ४५॥