________________
६४
निशोथस् सूत्रम्-जे भिक्खू अन्नयरं पाणगजायं पडिग्गाहित्ता पुष्पगं-पुप्फगं आवियइ कसायं-कसायं परिद्ववेइ परिठ्ठवेंतं वा साइज्जइ ।। सू० ४४ ॥
छाया-यो भिक्षुः अन्यतरत् पानकजातं प्रतिगृह्य पुष्पकं पुष्पकं पापियति, कपायं कपायं. परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ४४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अन्नयर' अन्यतरत् अन्यतरपदग्रहणात्-अनेकप्रकारकम् ,, मधुररसयुक्तं कपायरसयुक्तं च, खण्ड-गुढ--शर्करा-दाडिमी-मृद्दीकाऽऽमलक-हरीतकी-चिश्चादिरसरूपं द्वयमपि 'पाणगजायं पानकजातं, जातशब्दग्रहणात् प्रासुकं 'पडिग्गाहित्ता' प्रतिगृह्य-विधिपूर्वकं गृहीत्वा 'पुप्फगं-पुप्फर्ग आवियइ' पुष्पकं पुष्पकमापिवति, तत्र-पुष्पकं-शुभवर्ण-गन्ध -रसस्पर्शः प्रधानम् अच्छं मनोज़मित्यर्थः । एतादृशमुत्तमोत्तमं पानकनातमापिवति, तथा-'कसायं-कसायं' कपाय कपायं कलपितं शुभवर्ण-गन्ध-रस स्पर्शः प्रतिलोम-कलपितमप्रधानं वा पानकजातम् 'परिहवेई' परिष्टापयति-भूमौ निक्षिपति ।
उक्तञ्च पुष्पककपायविपये
यच्च गन्धरसोपेत-मच्छं तत् पुष्पकं भवेत् ।
दुर्गन्धमरसं यच्च, कपाय कलुपं च तत् ॥१॥ इति ।
अनेकप्रकारकानीतपानकमध्यात् यत्समीचीनं तत्पिबति, यच्चाऽसमीचीनं तनिक्षिपति । 'परिहवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तमागू भवति ।
साधुलक्षणमेतत् तथाहि
मा भूयासमहं साधुः, प्रायश्चित्ती कदाचन । मन्यते सोऽसमीचीन, भुक्त्वा भुङ्क्ते तथेतरत् ॥१॥ अत्र भाष्यकारोऽप्याहभाप्यम् - वण्ण-गंध-रसोवेयं, दव्वं तं पुप्फनामगं ।
दुन्भिगंधाइसंजुत्तं, कसायं तं हवे पुणो । कसायं पुन्चमापेज्जं, पुप्फग तयणंतरं ।
एसा सत्यविही वुत्ता, अणंतवरनाणिहि ॥ छाया-वर्ण-गंध-रसोपेतं द्रव्यं तत्पुष्पनामकम् ।
दुरभिगन्धादिसंयुक्त कपायं तद् भवेत्पुनः ।। कपायं पूर्वमापेयं पुष्पकं तदनन्तरम् ।। एप शास्त्रविधिः प्रोकः अनन्तवरशानिभिः ।।