________________
चूर्णिभाष्याषचूरिः उ० २ सू० ४३-४४ दुरभिकषायभक्तपानपरिष्ठापननिषेधः ६३
सूत्रम्-जे मिक्खू अन्नयरं भोयणजायं पडिग्गाहित्ता सुभि भुंजइ दुभि परिद्ववेइ, परिहवेतं वा साइज्जइ ।। सू० ४३ ॥
छाया-यो भिक्षुः अन्यतरत् भोजनजातं प्रतिगृह्य सुरभि भुक्ते दुरभि परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ।। सू० ४३ ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'अन्नयरं भोयणजायं अन्यतरद भोजनजातम्-अनेकप्रकारकं खादिमस्वादिमादिभेदभिन्नं विविधं भोजनजातं भक्तादिकम् 'पडिग्गाहित्ता' प्रतिगृह्य, यदि श्रावकादिगृहादनेकप्रकारकं सुस्वादु दुःस्वादु वा भोजनादिकमानीय तन्मध्यात् 'सुभि भुंजई' सुरभि मनोज्ञं विशिष्टवर्ण-गन्ध-रस-स्पर्शयुक्त भोजनं भुक्तं । दुभि परिडवेई' दुरभि-दुरभिगधन्युक्तं दुर्वर्ण-प्रशस्तवर्णरहितं दूरसं-प्रशस्तरसवर्जितं दुःस्पर्श-प्रशस्तस्पर्शहीनं भोज्यं परिष्ठापयति-गादिषु प्रक्षिपति, 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते । यो भिक्षुः श्रावकगृहादानीताहारमध्यात् सुस्वादूधृत्य भुक्ते, दुःस्वादु परित्यजति, एवं कुर्वन्तमनुमोदते वा स प्रायश्चित्तभाग् भवति ॥ सू० ४३ ॥
अत्राह भाष्यकारःभाष्यम्-वण्ण-गंध-रसेहिं जं, फासेहिं भोयणं जु।
मुभि तं चैव जाणिज्जा, इयरं इयरं हवे ॥ छाया-वर्ण-गन्ध-रसैर्यत्-स्पर्शभोजनं युतम् ।
सुरभि तदेव जानीयात् इतरदितरद् भवेत् ॥ अवचूरि:-'वण्ण-गंध' इत्यादि । यद्भोजनं भोक्तुं योग्यमोदनादिकम् , विलक्षणवर्णेन-श्वेतादिना, विलक्षणेन गन्धेन-सौरभ्यादिना भोजनोपयुक्तेन, मनोज्ञेन-रसेन मधुरादिना, मनोज्ञस्पर्शेन-कोमलादिस्पर्शयुक्तेन, एमिर्वर्णादिभिर्युक्तं यद् भोजनं तदेव सुरभि विजानीयात् । एतादृशं भोजनं सूत्रघटकसुरभिव्यपदेशं लभते इत्यर्थः 'इयरं इयरं हवे' इतरदितरद्भवेत् , यद्भोजनमितरत्-पूर्वोक्तविलक्षणवर्णादिना नोपेतं तद् भोजनमिरतरत् , दुरभि-दुर्वर्णगन्धादियुक्तमिति ज्ञेयम् । अथवा-रसोपेतमपि भोजनं दुरभिगन्धयुक्तं न प्रशस्तम्, तथा-अरसालं-शुष्क भोजनं सुरभिगन्धयुक्तं सुरभि भवतीति । अत्र-सुरभि-दुरभि, एतदुभयप्रकारकमपि भोजनमेकतः प्रत्येक वा गृहीत्वा सुरभिभोजनं भुङ्क्ते, दुरभि च परिष्ठापयति, तस्यैवं कुर्वतो यतेः प्रायश्चित्तं भवति । तथा-आज्ञाभङ्गानवस्थामिथ्यात्वात्मसंयमविराधनाः, यस्मादेते दोषा भवन्ति, तस्माद् दुरभिभोज्यस्य वस्तुनः पूर्वं भोजनं कर्त्तव्यम् , तदनन्तरं सुरभिभोजनं कर्त्तव्यमिति ॥ सू० ४३ ॥