________________
निशीथसूत्रे
वायोः-अघोवातस्य पुरीपस्य च वेगधारणे मस्तकादिरोगोत्पत्तिः । मूत्रवेगधारणे नेत्रहानि:, अतो नैतेषां प्राप्तं वेगं धारयेत् । स्थानमार्गादिपरिचयाभावरूपे सति कारणे पुनर्गच्छेदपि गृहस्थादिभिः सह विचाराद्यर्थम् ॥ सू० ४१॥
सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पारिहारिओ अपारिहारिएण सद्धिं गामानुगामं दूइज्जइ दूइज्जंतं वा साइज्जइ ।।
__ छाया-यो भिक्षुरन्ययूथिकेन वा गृहस्थेन वा पारिहारिकोऽपारिहारिकेण साई ग्रामानुग्रामं द्रवति द्रवन्तं वा स्वदते ॥ सू० ४२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः, 'अण्णउत्थिएण वा अन्ययूथिकेन 'गारथिएण वा' गृहस्थेन तथा 'पारिहारिओ वा' पारिहारिको वा 'अपारिहारिएण' अपारिहारिकेण 'सद्धिं' साईम् 'गामाणुगाम' ग्रामानुग्रामम् एकस्माद् प्रामाद् ग्रामान्तरम् 'दुइज्जई' द्रवति--गच्छति विहारं करोतीत्यर्थः । 'दुइज्जत वा साइज्जई' द्रवन्तं-गच्छन्तं स्वदतेऽनुमोदते । स्वयमन्यतार्थिकादिभिर्दामाद्नामान्तरं गच्छन् गच्छन्तमनुमोदमानच प्रायश्चित्तभागभवति ॥ सू० ४२॥
अत्राह भाष्यकार:भाष्यम्-गामाणुगामं भिक्खुस्स, गमणं नेव कप्पइ ।
__ अणुस्थियाइलोगेहिं, सद्धिं तस्स कयाइवि ।। छाया-ग्रामानुग्राम भिक्षोः गमनं नैव कल्पते ।
अन्ययूथिकादिलोकै साई तस्य कदाचिदपि ॥ अवचूरिः-'गामाणुगाम'-इत्यादि । 'भिक्षोः पारिहारिकस्य च चारित्रपालकस्य अन्ययूथिकादिलोकैः, आदिशब्देन गृहस्थैः अपारिहारिकैश्च सार्द्ध प्रामानुग्राम-एकस्माद् प्रामाद ग्रामान्तरं गमनं तस्य कदाचिदपि नैव कल्पते । एपु-अन्यतमेन येन केनाऽपि सह प्रामानुग्राम विहरतः साधोराज्ञाभङ्गानवस्यामिथ्यात्वसंयमात्मविराधनादिदोपा भवन्ति । तत्र-परतोर्थिकादिभिः सह गमने तीर्थकराणामाज्ञा भग्रा भवति, तीर्थकरैस्तैः सह गमनस्य निषिद्धत्वात् । अनवस्था च भवति-एकस्तथा कुर्यात् तदा तं दृष्ट्वाऽन्योऽपि कुर्यात् , एवमन्योऽपीति-एवमनवस्था । तथा-तादृशैः सह गमनं कुर्वन्तं साधु दृष्ट्वा द्रष्टुर्भनसि अश्रद्धा भवेत् , यद् इमे जैनभिक्षवोऽपि शिथिलाचाराः सन्तीति । तद्वा श्रवणादिना मिथ्यात्वमपि समुत्पयेत । तथा-तैः सह यत्र तत्र वा आधार्मिकाद्याहारं भुजन् संयमं विराधयेत् । तया-चौरोऽयमिति कृत्वा ताडनमेदनादिसंभवाद-आत्मविराधनमपि संभवेदिति ।। सू ० ४२॥