________________
चूर्णिभाग्यावचूरिः उ० २ सू० ४१ अन्यतीर्थिकदिसहविचारभूम्यादिगमननिषेधः ६५
सूत्रम्-जे भिक्खू अण्णउत्थिएण वा गारथिएण वा पारिहारिओ वा अपारिहारिएण सद्धिं बहिया वियारभूमि वा विहारभूमि वा णिक्खमइ वा पविसइ वा, णिक्खमंतं वा पविसंतं वा साइज्जइ ।। सू० ४१॥
___छाया-यो भिक्षु अन्ययूथिकेन वा गृहस्थेन वा, पारिहारिको वा अपारिहारिकेण साई बहिर्विचारभूमि वा विहारभूमि वा निष्कामति वा प्रविशति वा, निकामन्तं वा प्रविशन्तं वा स्वदते ॥ सू०४१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अण्णउत्थिएण वा अन्ययूथिकेन वा- परतीर्थिकेन 'गारथिएण वा' गृहस्येन वा, तथा पारिहारिको वा अपारिहारिकेण मूळोत्तरगुणदोपवता पार्श्वस्थादिना 'सद्धि' सार्धम् एकत्र मिलित्वा 'वहिया' बहिः-'वियारभूमि वा' विचारभूमि वा तत्र-विचारः मूत्रपुरीपादिसमुत्सर्गः, तदर्थं योग्या या भूमिः सा विचारभूमिः, तां विचारभूमिम्, 'विहारभूमि वा' विहारभूमिम् , स्वाध्यायभूमिः विहारभूमिः, तां विहारभूमिम् ‘णिक्खमइ वा' निष्क्रामति 'पविसइ वा' प्रविशति विचाराद्यर्थ गच्छति वा । 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंत वा' प्रविशन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ४१॥
अत्राह भाष्यकार:भाष्यम्-भिक्खुस्स नेव कप्पेइ, गंतुमण्णुत्थियाइहि ।
सद्धिं चारित्तपालस्स, वियारहूं कयाइवि ॥ छाया-भिक्षोर्नव कल्पते गन्तुमन्ययूथिकादिभिः ।
सार्द्ध चारित्रपालस्य विचारार्थ कदाचिदपि । अवचूरिः-'भिक्खुस्स' इत्यादि । यो हि भिक्षुः चारित्रपालकः चारित्रस्य पालने सदा यतनावान् भवति तस्य भिक्षोः विचारार्थ मूत्र-पुरीपाद्युत्सर्जनाय संज्ञाभूमिम् उपलक्षणाद् विहारभूमि वा गन्तुम्-अन्ययूथिकादिभिः सह अर्थात्-अन्ययूथिकैः परतीर्थिकैः शाक्यभिक्षुक-चरकपरिवाजकैः सह आदिपदात्-गृहस्थैः, पारिहारिकस्य च अपरिहारिकैः सह गन्तुं न कल्पते । एतेषु गृहस्थपरतीथिकाऽपरिहारिकादियु मध्यादेकतरेणाऽपि सह विचाराद्यर्थ चकारात्-विहाराधर्थ वा यो भिक्षुः पारिहारिको वा गच्छति तस्याऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादोषा भवन्ति । विचारमभ्यां पुरुपाचागमने संलोकदोषः शङ्का च लोकानां भवेत् । अप्रवर्त्तने मूत्रपुरीपादिनिरोधाद् रोगादिसंभवः । उक्तं च केनचित्कविना राजसमीपे--
त्रयः शल्याः महाराज !, अस्मिन् देहे प्रतिष्ठिताः। वायुमूत्रपुरीपाणां, प्राप्तं वेगं न धारयेत् ॥१॥