________________
निशीथसत्रे
अशन-पान-खाद्य-स्वाद्य- भेदात् । षड्विधो वा भवति - अशनादयश्चत्वारः द्वौ उपधिविषयकौऔघिकोपधिः औपग्रहिकोपधिश्चेति तृतीयं द्वारम् ३ | 'अशय्यातरकः कदा ' इति चतुर्थ द्वारमाहयदा - वसतिं परित्यज्य गृहस्वामिन आज्ञां परावर्त्त्य स्थानान्तरं करोति तदा - सोऽशय्यातरो भवति - इति चतुर्थं द्वारम् ४ । ' त्याज्योऽसौ कस्य विज्ञेयः' इति पञ्चमं द्वारमाह - साधुगुणवर्जितानां लिङ्गमात्रधारिणां यः शय्यातरो भवेत्, ते तस्य शय्यातरस्य पिण्डं गृह्णीयात् न वा गृहीयात् तथापि स शय्यातरः साधूनां व्याज्य एव भवतीति पञ्चमं द्वारम् ५ । 'दोपाः पिण्डग्रहे च के' तस्य सागारिकस्य पिण्डग्रहणे के दोषा इति पष्टं द्वारमाह-अय्यातरपिण्डस्तीर्थकरैः ऋपभादिभिः प्रतिषिद्धः तस्मात् - शय्यातरपिण्डो न ग्रहीतव्यः, इति पष्ठं द्वारम् ६ । 'अनेकेषु च०' इत्यादि, अनेकस्वामिकेषु वसत्यादिषु “एकस्यैवाज्ञा ग्रहीतव्या" इति सप्तमं द्वारम् ७। शय्यातरस्य सविस्तर - वर्णनं दशवैकालिकसूत्रस्य मत्कृतायामाचारमणिमन्जुपाव्याख्यायां विलोकनीयम् ॥ सू० ४६ ॥
ઘૂંટ
सूत्रम् — जे भिक्खू सागारियपिंडे भुंजइ भुंजंतं वा साइज्जइ । सू०४७| छाया -यो भिक्षुः सागारिकपिण्डं भुङ्क्ते भुञ्जन्तं वा स्वदते ॥ सृ० ४७||
'चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियपिंडं' सागारिकपिण्डं शय्यातरस्य भक्तपानादिकम् 'भुंजइ' भुङ्क्ते - शय्यात रपिण्डस्योपभोगं करोतीत्यर्थः । भुजंतं वा साइज्जइ' भुञ्जन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ४७ ||
सूत्रम् - - जे भिक्खू सागारियकुलं अजाणिय अपुच्छिय अगवे - सिय पुव्वामेव पिण्डवायपडियाए अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥ सू० ४८ ||
छाया -यो भिक्षुः सागारिककुलमज्ञात्वा - अपृष्ट्वा - अगवेपयित्वा पूर्वमेव पिण्डपातप्रतिज्ञयाऽनुप्रविशति - अनुप्रविशन्तं वा स्वदते ॥ सू० ४८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सागारियकुलं' सागारिककुलं - शय्यातरगृहम्, 'अजाणिय' अज्ञात्वा - किमिदं श्रावकस्य गृहम् अन्यस्य वेति निश्चयमकृत्वा 'अपुच्छिय' अपृष्ट्वा - अमुकशय्यातरगृहं क्व वर्त्तते इति समीपवर्त्तिश्रमणादिभ्यः पृच्छा'मकृत्वा 'अगवेसिय' अगवेषयित्वा - शय्यातरः कस्मिन् स्थाने वसति - इति गवेषणामकृत्वा । तत्र-पूर्वदृष्टे पृच्छा, अपूर्वदृष्टे गवेषणा, इति पृच्छा - गवेषणयोर्भेदः । 'पुव्वामेव' पूर्वमेव-शय्यातरगृहादिगवेषणाकरणतः - प्रागेव 'पिंडवायपडियाए' पिंडपात प्रतिज्ञया, तत्र - पिण्डोऽशनादिकम् गृहिणा दीयमानस्याहारस्य पात्रे पातः प्रक्षेपो ग्रहणं, तस्य प्रतिज्ञया पिण्डग्रहणवुद्धचेत्यर्थः, 'अणुप्म