________________
चूर्णिभाष्यावचूरिः उ०२ सू० ३९
परिचयं कृत्वा पश्चाद् भिक्षार्थप्रवेशनिषेधः ५७
वचनरूपः पूर्वसंस्तवः अदत्त दाने पूर्वमेव संस्तवं करोति-मदनेनन सन्तुष्टोऽभिलषितं मे दास्यात । वचनरूपः पश्चासंस्तवः-दाने दत्ते वा वचसा संस्तवं करोतीति संक्षेपः । एवं गुणसंस्तवोऽपि पूर्वपश्चाद्भेदेन विज्ञेयः ॥ सू०३८॥
सूत्रम्-जे भिक्खू समाणे वा वसमाणे वा गमाणुगामं दूइज्जमाणे वा पुरेसंथुयाणि वा पच्छासंथुयाणि वा कुलाई पुवामेव अणुप्पविसित्ता पच्छा भिक्वायरियाए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ।। सू० ३९॥
छाया-यो भिक्षुः समाणो वा वसमाणो पा ग्रामा नुग्राम द्रवन् पुर संस्तुतानि वा पश्चात्संस्तुतानि वा कुलानि पूर्वमेवानुप्रविश्य पश्चात्-भिक्षाचर्यायै अनुप्रविशति अनुप्रग्शिन्तं वा स्वदते ॥ सू०३९॥ ।
चूर्णी-जे भिक्खू इत्यादि । 'जे भिक्खु यो भिक्षुः 'समाणे वा' समाणो वा यो गृद्धिरहितः समर्यादं स्थिरवासं स्थितः स 'समाण' इत्युच्यते, एतादृशः साधुः, तथा योऽष्टमासिकं ऋतुबद्धकालं, चातुर्मासिकं वर्षाकालमिति नवकल्पविहारी भवति स 'वसमाण' इति कथ्यते 'समाणः' 'वसमाणः' इति द्वावपि सैद्धान्तिको शब्दो, एतादृशः कोऽपि साधुः 'गामाणुगाम दृइज्जमाणे' ग्रामानुग्राम द्रवन् एकस्माद्नामादपरं ग्रामं विहारं कुर्वन् 'पुरेसंथुयाणि वा' पुरःसंस्तुतानि-गृहस्थावस्थायां पूर्व वाल्ये वयसि सस्तु वाः परिचिता ये मातृ-पिन-वान्धवादयस्ते यत्र वसन्ति तानि, 'पच्छासंयुयाणि' पश्चात्-युवावस्थायाम् संस्तुतानि-परिचिताः श्वश्रू-श्वशुरश्यालकादयः ते, वसन्ति यत्र तानि 'कुलाई' कुलानि दीक्षाग्रहणात् प्राग्वत्र्तीनि पूर्वापरसंस्तुतानां गृहाणि 'पुब्बामेव' पूर्वमेव-भिक्षाग्रहणात्यागेव 'अणुप्पविसित्ता' अनुप्रविश्य-गत्वा 'पच्छा भिक्खायरियाए' पश्चात्-ततः परम् पूर्वापरसंस्तुतगृहाणि प्रविश्य तान् स्वागमननिवेदनबुद्ध्या संवोध्य तदनु पश्चात् भिक्षाचर्यायै 'अनुप्पविसई' अनुप्रविशति-गच्छति भिक्षार्थं प्रस्तुतो भिक्षाग्रहणं पृष्ठतः कृत्वा ज्ञातिकुलं पुरा प्रयाति ततो यो भिक्षां चरति 'अणुपविसंत वा साइज्जइ' अनुप्रविशन्तम् इत्थमन्यं यः स्वदतेऽनुमोदते स प्रायश्चित्तभाक् ॥ सू० ३९॥
सूत्रे 'समाणे 'वसमाणे' इति पाठेऽयमर्थः-- भाष्यम्-समाणे बुढवासी य, वसमाणे तहेयरो।
गमणं दुविहं बुत्त, निक्कारण-रकारणं ॥ छाया-समाणो वृद्धवासी च, वसमाणस्तथेतरः ।
गमनं द्विविधमुक्तं निष्कारण-सकारणम् ॥