________________
५६
निशीथसूत्रे
.
N
" दातुश्च दानात्परतः पुरो वा कुर्वन् स्तवं वाऽप्यथ कारयन् यः ! 'कुर्वन्तमन्यं यदि वाऽनुमोदते, आज्ञादिभङ्गाल्लभते स दोपान् ॥१॥ इति सारः ॥| सू०३८|| भाष्यम् - दव्वे खेत्ते तहा काले, भावे संथव इस्सइ । सपरोभयसं जाओ, संतासंतो पुणो दुहा ॥
छाया - द्रव्ये क्षेत्रे तथा काले, भावे संस्तव हृप्यते । स्वपरोभयसंजातः, सन्नसन पुनर्द्विधा ॥
अवचूरिः - 'दव्वे' - इत्यादि । संस्तवः प्रशंसनम् चतुष्प्रकारक हृप्यते भवति । तद्यथाद्रव्ये - द्रव्यविपये १, क्षेत्र - क्षेत्रविषये २ काले-कालविषये ३, तथा - भावे - भावविषये चेति ४, द्रव्यादीनां चतुर्भेदभिन्नत्वात्, तत्सम्बन्धी संस्तवोऽपि चतुर्विध इष्यते कथ्यते इत्यर्थः । पुनः स्वपरोभयसंजातः पुनरेकैकः स्वपरोभयमेदात् त्रिविधः संजातः । पुनः स सदसद्भेदेन प्रत्येकं द्विधा भवति, तत्र - आत्मपरोभयभेदादेकैकस्त्रिविधः, यथा साधुरात्मनः संस्तवं करोति १, साधुः परस्य संस्तवं करोति २, साधुरुभयोरपि संस्तवं करोति ३ । अथवा - आत्मना संस्तवं करोतीतिआत्मसंस्तवः, इति व्युत्पत्त्या साधुरात्मना गृहस्थं संस्तौति - एप आत्मसंस्तवः १, गृहस्थः साधु स्तौति - इति परसंस्तवः २, द्वावपि परस्परं संस्तवं कुरुत इत्युभयसंस्तवः ३ । सदसद्भेदेन पुनर्द्विधा । एतेषामेकैकः पुवद्विविधो द्विप्रकारको भवति । सन् - विद्यमानः १, असनू -- अविध - मानश्च २ । तत्र सद्रूपे सत्सु गुणेषु प्रशंसाकरणम् १, असद्रूपेणेति असत्स्वपि गुणेषु प्रशंसाकरणम् २ । अथवा सदिति विद्यमाने तस्मिन् तस्य समक्षं प्रशंसनम् १, असदिति अविद्यमाने तस्मिन् तस्य परोक्षं प्रशंसनमिति २ । द्रव्य क्षेत्र - कालैस्त्रिविधसंस्तवमध्ये द्रव्यसंस्तवमाहयथा कश्चित् परेण पृष्टः - किं भवान् पूर्वं धनवानासीत् ? साधुर्वदति - एवमहं धनवानासम् ? स साधुः पूर्वं धनवानासीन्न वेति सन्देह. किन्तु तथा वदति । ततो गृहस्थ आह - अमुको हि धनवान् श्रेष्ठी - अमुकनामानं भवन्तं न जानाति भवानेवं कथयति, दरिद्रः प्रव्रजति न धनिक इति । तत् श्रुत्वा गर्वयुक्तः साधुः परं निन्दन् स्वात्मानं प्रशंसन् एवं वदति - यथेदानीं भवानैश्वर्ययुक्तस्तथाऽहमपि पूर्वमासम्, इति ।
I
क्षेत्र संस्तवमाह – यथा - साधु प्रति कश्चित् पृच्छति -त्वं कस्मात् क्षेत्रात् प्रत्रजितवान् साधुर्वदति-- युष्माकमेवाहं सहवासी ।
कालसंस्तवमाह -- कस्मिन् वयसि प्रत्रजितः इति पृष्टो वदति-त्वत्सदृशवयस्क एवं प्रव्रज्यां प्राप्तवानस्मि । अथवा – प्रथमे वयसि - उद्वाहिते सति प्रत्रजितः स्थापितविवाहदिने वा प्रत्रजितः । भावसंस्तवमाह -- भावसंस्तवो द्विप्रकारकः संयते वचने च । यथा कश्चित् साधुं पृच्छति--- योऽमुकः प्रव्रजितः स त्वत्सदृश एव ? साधुराह - एवमेव । अथवा तूष्णीं स्थितो भवति, वदति वा-क एवं पृच्छति ?