________________
चूंर्णिभाष्यावचूरिः उ० २ सू० ३७-३८
नैत्यिकवास-पुर-पञ्चात्संस्तवनिषेधः ५५
mmmmmmmmmmmmmm
छाया-पिण्डो भक्तार्थको शेय-स्तदर्ध चाऽपार्धकः ।
भागस्त्रिभागस्तस्या ऊनार्यः स न्याख्यातः ॥ पिण्डे नैत्यिकेऽपार्धे भागे ऊनार्द्धके तथा ।
एप पव गमो शेयः सर्वदा शास्त्रसंमतः ॥ अवचूरिः - 'पिंडो भत्तहगो'-इत्यादि । पिण्ड:-पिण्डशब्दोऽत्र भक्तार्थकः भक्तार्थवाचको ज्ञेयः, ततः पिण्ड इति भक्तमित्यर्थः, तस्य यदर्द्ध सोऽपार्द्धभागः प्रोच्यते, भागः त्रिभागः, तथा तस्यापि यद् अर्द्ध स ऊनार्द्धः ऊनार्द्धभागः।
ततो नैत्यिके पिण्डे, तथा सूत्रघटकेऽपार्थे तथा भागे, तथा ऊनार्धके सर्वत्र एष एव गमोऽग्राह्यरूपः तीर्थकरगणधरैः सर्वदा-सर्वकालं व्याख्यातः कथितः, अत एव स शास्त्रसम्मतो ज्ञेयः । तत्र-रामस्वरूपमेव दर्शयति-'पिंडे' इत्यादि । सूत्रघटकपिण्डपदं भक्तार्थकं भवति, पिण्डो भक्तार्थ इति पर्यायः । यथा चतुस्त्रिंशत्सूत्रघटकं 'अवड्द' इति पदं पिण्डार्धबोधकम् , पिण्डस्यार्धभाग इत्यर्थः । भागपदम्-पञ्चत्रिंशत्सूत्रघटकपिण्डस्य त्रिभागबोधकम् । तथा षट्त्रिंशत्सूत्रघटकम् 'ऊणइढभाग'-पदं त्रिभागस्याप्यूनाऽर्धभागबोधकं ज्ञातव्यम्, एतत्सर्व दानाद्यर्थ निष्कासितबिषयकं बोध्यम् , तद्ग्रहणे साधुर्दोषभाग् भवति ॥ सू० ३६ ॥
सूत्रम्--जे भिक्खू णितियं वासं वसइ वसंतं वा साइज्जइ ।। सू०३७। छाया-यो भिक्षु त्यिकं वासं वसति वसन्तं वा स्वदते ॥ सू० ३६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णितियं वास' नैत्यिकं वासं वर्षाकालवर्जिते ऋतुबद्धकालातिरिक्तकालेऽप्यकारणमेकस्मिन् स्थाने नित्यवासम् 'वसइ' वसतिवासं करोति कारयति 'वसंतं वा साइज्जइ' वसन्तं वा स्वदतेऽनुमोदते, स हि
शीतकालाद्वर्षकालात् , परतः कारणेऽसति ।
प्रायश्चित्ती वसन्नित्यं, वसतो वाऽनुमोदनात् ॥१॥ इति ॥ सू०३७॥ सूत्रम्-जे भिक्खू पुरेसंथवं पच्छासंथवं वा करेइ करेंतं वा साइज्जइ।
छाया-यो भिक्षुः पुर-संस्तवं पश्चात्संस्तवं वा करोति-कुर्वन्तं वा स्वदते ॥३८॥
चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यो भिभुः 'पुरेसंथवं' पुरःसंस्तवम् वस्त्रपात्रादिदातुर्दानात्पूर्व-पूर्वकालमेव संस्तवम् प्रशंसनम्-परिचयं वा 'संस्तवः स्यात्परिचय' इति वचनात् , 'पच्छासंथवं' पश्चात्संस्तवम् , वस्त्रपात्रादिदानानन्तरकाले संस्तवं प्रशंसनम्परिचयं वा 'करेइ' करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते-अनुभोदते स प्रायश्चितभाग भवति ।