________________
निशीथर्व अवचूरि:-यद्वा सूत्रे-'समाणे' इति वृद्धवासवासी--वृद्धत्वग्लानत्वादिकारणवशात् स्थिरवास स्थितः, तथा- इतर:- 'वसमाणे नवकल्पविहारी । तत्राऽष्ट कल्पाः ऋतुबद्धकालसंबद्धाः, नवमः कल्पो वर्षाकालः, तत्र विहारी नवकल्पविहारी । ___ गमनं द्विविध--द्विप्रकारकमुक्तं- कथितम्-एकं निष्कारणम् १, अपरं-सकारणम् २ । कारणविशेषमाश्रित्य नायमानं सकारणम् , कारणमन्तरेण जायमानं निष्कारणम् । तत्र सकारणं गमनं यथाआचार्यप्रमृतीनां वैयावृत्त्यनिमित्तं भिक्षानिमित्तं वा गमनम् । एवं निष्कारणमेव ग्रामानुग्रामं गमनम्, अकाले वा भिक्षार्थ गमनम् । तत्र इमे वक्ष्यमाणाः भूयांसो दोषा भवन्ति, तथाहि-कदाचिन्मागोंऽशोभनो भवेत् , भिक्षा वसतिरपि न सुलभा भवति, स्वपक्षपरपक्षेभ्योऽपमानं भवति, भिक्षार्थ निषिद्धगृहे गच्छतः शास्त्रस्य-जिनप्रवचनस्य निन्दा भवति, पृथिवीकायिकादीनां जीवानां विराधना भवति । एवं निष्कारण गच्छता पड्जीवनिकायानां विराधना क्रियते-इति संयमविराधना भवति । कण्टयादिद्वारा पादे क्षतिर्भवतीत्यात्मविराधनाऽपि । सागारिकभयात् प्रमादेन वा परिश्रान्त उपधीनां प्रतिलेखनं न करोति, उपधीनां हरणं वा भवति । एवं भिक्षाकालातिक्रमणे ग्राम प्राप्तस्तत्राऽनेपणीयमप्याहारं अहिप्यति । हिंस्रजन्तुना खादितः आत्मविराधनं प्राप्स्यति । एवं-समयातिक्रमे भिक्षार्थ गच्छतः पश्चात्कर्मदोषा अपि भवेयुः । इत्येते अकारणगमने दोषा आपद्यन्ते इति । सकारणं गमनं द्विविधम्-निर्व्याघाते व्याघाते “च गमनम् । तत्र-निर्व्याघातगमनम्-ऋतुबद्धकल्पे वर्षाकल्पे वा समाप्ते क्षेत्रात् क्षेत्रान्तरगमनम् । तत्र द्वयोः कालयोर्मध्ये एकतरस्मिन्नपि काले मासकल्प. प्रायोग्यानि क्षेत्राणि यो लक्ष्यति स 'प्रायश्चित्तमाक् । सम्प्रति व्याघातेन मासकल्पप्रायोग्य क्षेत्रान्तर संक्रामति, तत्र व्याघातकारणमाह-अशिवादिगृहीतं क्षेत्रम् , तत्र स्वाध्यायादिकं सम्यक् न भवति, उपधिर्वा तत्र न प्राप्यते, आचार्यादिप्रायोग्यं वा नास्ति । एतादृशे कारणे व्याघातगमनं भवति । कारणविशेषमाश्रित्यैकस्मात् क्षेत्रात् क्षेत्रान्तरं गच्छतो दोपो न भवति यस्मात् स तीर्थंकरानां नातिकामतीति । अत्र सकारणानामधिकारः । निष्कारणं गच्छतां तु दोषो भवत्येव । एवं पूर्वोक्तप्रकारेण विहारं कुर्वतां संस्तव-इत्थं भवति ॥ सू० ३९॥
पुनराह भाष्यकारः - भाष्यम्-कुलसंथवो य तेसिं, गिहत्थधम्मे तहेव सामण्णे ।
पुण एक्केको दुविहो, पुवं पच्छा य णायचो ॥ छाया- कुलसंस्तश्च तेषां गृहस्थधर्म तथैव धामण्ये ।।
पुनरेकैको द्विविधः पूर्व पश्चाच्च ज्ञातव्यः ॥ अवचूरिः-'कुलसंथवो' इत्यादि । तेषाम् पूर्वोक्तप्रकारेण विहारं कुर्वतां भिक्षूणां संस्तवः द्विविधो-द्विप्रकारको भवति । तत्र-संस्तवो नाम परिचयः, स च द्विधा भवति-गृहि