________________
चूर्णिभाष्यावचूरिः उ० २ सू० २४
अभिन्नवस्त्रधारणनिषेधः :४७ करोतीत्यर्थः। 'धरेंतं वा साइज्जई' धरन्तं वा स्वदते । यो हि भिक्षुः प्रमाणातिरिक्तवस्त्राणां धारणं करोति, कारयति, कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभाग् भवतीति ।। सू० २३ ॥ भाष्यम् कसिणं दव्य खेत्ते य, काले भावे चउन्विहं ।
दुविहं दवकसिणं, सयलं च पमाणगं ॥ छाया-कृत्स्नं द्रव्ये क्षेत्रे च काले भावे चतुर्विधम् ।
द्विविधं द्रव्यकृत्स्नं सकलं च प्रमाणकम् ॥ अवचूरिः-'कसिणं' इत्यादि। प्रकृतसूत्रघटककृत्स्नं चतुर्विधम् चतुष्प्रकारकं भवति । प्रथमं द्रव्ये-द्रव्यकृत्स्नम् १, द्वितीयं क्षेत्रे-क्षेत्रकरस्नम् २, तृतीयं काले-कालकृन्स्नम् ३, तथा चतुथे भावे-भावकृत्स्नम् ४। तत्र चतुष्प्रकारककृत्स्नेषु मध्ये द्रव्यकृत्स्नं द्विविधम् द्विप्रकारकं भवतिसकलकृत्स्नम् , प्रमाणकृत्स्नं च । तत्र-सकलकृत्स्नं नाम' यद्वस्त्रं धनं-तन्तुभिर्यनिष्ठं चिक्कणम्अतिकोमलम् , तथा-अखण्डितं पूर्व तन्मध्यान्न केनापि गृहीतं परिपूर्णमित्यर्थः, एतादृशं सदशिकं 'थान-ताका' इत्यादिरूपेणाऽखण्ड यद्वस्त्रं तत्सकलकृत्स्नमिति कथ्यते । एतच्च सर्वोत्कृष्टत्वान्न ग्राह्यम् । एतादृशानि सकलकृत्स्नानि वनाणि गृहस्थेभ्यः खण्डयित्वाऽऽनीतानि जघन्यमध्यमो. त्कृष्टरूपाणि मुखवत्रिकाचोलपट्टकप्रावरणादीनि साधुना न धारणीयानीति भावः । अथ प्रमाणकृत्स्नमाह-यद्वनम्-आयामतो द्विसप्ततिहस्तमित, विस्तारतश्चतुर्विशत्यङ्गुलकहस्तप्रमाणकम् , निर्मन्थीनां पण्णवतिहस्तप्रमाणम् प्रमाणकृत्स्नमिति कथ्यते, तन्न धारणीयं न च प्रायमिति ।। सू० २३ ॥
सम्प्रति-क्षेत्रकृत्स्नं प्रदर्शयति-'जं वत्थं' इत्यादि । भाष्यम्-जं वत्थं जत्थ देसे उ, दुल्लहं बहुमोल्लगं ।
___कसिणं खेत्तजुत्तं तं, जहन्नुक्कोसमज्झिमं ॥ छाया-यद्वस्त्रं यत्र देशे तु, दुर्लभं बहुमूल्यकम् ।
कृत्स्नं क्षेत्रयुक्तं तद् जघन्योत्कृष्टमध्यमम् ॥ अवचूरि:-यद् वस्त्रं कार्पासादिकं यत्र-यस्मिन् देशे मगधादौ दुर्लभं प्राप्त्ययोग्यं महर्षितं च, तद्वस्त्रं तेन क्षेत्रेण-देशादिना युक्त क्षेत्रकृत्स्नमिति कथ्यते । यथा-हस्तकतितकार्पासिकसूत्रनिर्मितं वस्त्रं संप्रति 'खद्दर' इति लोकप्रसिद्धम्-उत्तरविहारदेशेऽतिसुलभम् अल्पमूल्यसाभ्यं च, तदेव वस्त्रं गुर्जरद्रविडादौ देशे दुर्लभं भवति तत्क्षेत्रकृत्स्नमिति कथ्यते । तदपि बहुमूल्यं सत्न कल्पते । तदपि क्षेत्रकृत्स्नं वस्त्रं त्रिप्रकारकम् जघन्य-मध्यमो-कृष्टभेदात् , इति । एवं यद्वस्त्रं यस्मिन् काले महर्षितं दुर्लभं च तद्वस्वं तस्मिन् काले कालकृत्स्नं भवति । एतदपि जघन्यादिभेदात् त्रिविधं बहुमूल्यं न कल्पते इति विवेकः ॥ सू० २३ ॥