________________
चूर्णिभाष्यावेचूरिः उ० २ सू० २३
कृत्स्नवस्त्रधारणनिषेधः ४५
M
छाया--कृत्स्नं चतुर्धा प्रोक्तं, सकलादिप्रमेदतः ।
चतुर्विधस्य चर्मणो धारणं नैव कल्पते ॥ अवचूरिः- 'कसिणं' इत्यादि । कृत्स्नं चतुर्धा-चतुष्प्रकारकं प्रोक्तं भवति सकलादिप्रभेदतः, तद्यथा-सकलकृत्स्नम्-१, प्रमाणकृत्स्नम् २, वर्णकृत्स्नम् ३, बन्धनकृत्स्नं ४ च । एतत् चतुर्विधं कृत्स्नं भवति । एतच्चतुर्विघस्य-चतुष्प्रकारकस्याऽपि कृत्स्नस्य चर्मणो धारणं भिक्षणां न कल्पते ।। सू० २२॥ भाष्यम्-एगपुड सयलकसिणं १, पमाणकसिणं २ च होइ दुपुडाई।
कोसग-खल्लग-चगुरी-खवुसा-जंघ-दजंघा य ।। किसणाइपंचवण्णगचम्मेणं निम्मियं च वण्णकसिणं ३।
बंधणकसिणं जमिहा, बंधणतिगओ परं चउत्थाई ४ ॥ छाया-पकपुटं सकलं कृत्स्नं, प्रमाणकृत्स्नं च भवति द्विपुटादिकं ।
कोशक-खल्लक-वागुरी-खपुसा-जा-5 जवा च ॥ कृष्णादिपञ्चवर्णकचर्मणा निर्मितं च वर्णकृत्स्नम् ।
वन्धनकृत्स्नं यदिह बन्धनविकतः परं चतुर्थादि ॥ अवचूरिः-'एगपुड' इत्यादि । तत्रैकपुटम्-एकतलमखण्डितं सकलकृत्स्नं भवति । द्विपुटादिक-व्यादितलादिकम् यत्रोपानहादौ तत्प्रमाणकृत्स्नं भवति । अस्यैव प्रमाणकृत्स्नस्य भेदानाह-तद्यथा-कोशक-खल्लक-वागुरी-खपुसा जवाऽर्द्धजधाप्रभृतिका लोके व्यवहियमाणा मेदाः, तत्र-कोशकं-चर्ममयं (कोथली-थैली) इतिप्रसिद्धम् , यस्मिन् प्रवेशित
चरणागुलिनखो मार्गे संचलतो न भज्यते-न भियते तत् , सा च चर्ममयी कुत्थलिका ११ खल्लकम्अत्र पुनी भेदौ-अर्द्धखल्लक, सर्वखल्लकं च । तत्र-तलप्रतिबद्धं यावत्खल्लकैरनुस्यूतं यत्रोपानहि साऽर्द्धखल्लकोपानत् , या च-समस्तमेव चरणमाच्छादयति सा सर्वखल्लकोपानत् २ । या च पुनरङ्गली छादयित्वा चरणावुपरि छादयेत् सा वागुरी वागुरा वा ३ खपुसा सा या जानु पिदधाति-छादयति ४) या जबापर्यन्तमाच्छादयति सा जहा समस्तजधेति यावत् ५ । जवाया अर्द्धभागमेव याऽऽच्छायेत्साऽर्द्धजचोपानत् ६ । इति प्रमाणकृत्स्नमिति द्वितीयो भेदः २। ॥१॥
सम्प्रति भाष्यगततृतीयभेदमाह-'किसणाई' इत्यादि, यत् पुनश्चम वर्णेन कृष्णादिना शोभां पुष्णाति तत् वर्णकृत्स्नम्, तच्च वर्णकृत्स्नं चर्म कृष्णादिवर्णेन पञ्चविधं भवति, वर्णस्य पञ्चविधत्वात् ३। बन्धत्रयात्परं चतुर्थादिबन्धनयुक्तं यत् तद् बन्धनकृत्स्नं भवतीति चतुर्थों भेदः । इत्थं सकलचर्मनिर्मितोपकरणानामुपानहादीनां च धारणं साधूनां न कल्पते इति दिग्दर्शनम् ।। सू० २२ ॥