________________
४४
निशीथसूत्रे वा' उच्छोलेत्-प्रक्षालयेत्, हस्तपादाघवयवानामेकवारं प्रक्षालनं जलेन कुर्यादित्यर्थः । 'पधोवेज्ज वा' प्रधावेद्वा-वारंवारं हरतादीनां प्रक्षालनं कुर्यादित्यर्थः
'उच्छोलेंतं वा पधोतं वा साइज्जइ' उछोलन्तं वा प्रधावन्तं वा प्रक्षालयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागिति ॥ सू० २१ ॥ भाष्यम्-उच्छोलणं च दुविह, देसओ सवओ तहा ।
___ जहासत्थं च णायव्वा, तस्स भेया जहक्कम ॥ छाया-उच्छोलनं च द्विविधं देशतः सर्वतस्तथा ।
यथाशास्त्रं च ज्ञातव्यास्तस्य मेदा यथाक्रमम् ॥ अवचूरिः–'उच्छोलणं' इत्यादि, । उच्छोलनम्-प्रक्षालनम् , तद् द्विविधं-द्विप्रकारकं भवति । तद्यथा-देशतो-देशविषयकम् । तथा-सर्वतः-सर्वविषयकम् । तस्य देशादिप्रक्षालनस्य भेदप्रभेदाः यथाशास्त्रं-सर्वज्ञप्रतिपादितशास्त्रात् , यथाक्रम क्रमेण ज्ञातव्याः। तथाहि-प्रथमतः 'उच्छोलने प्रक्षालनं द्विविधम् -देशतः सर्वतश्च । तत्र-पुनर्देशविषयकं द्विविधम्-आचीर्णमनाचीर्ण च । तत्र ज्ञातजिनागमश्रमणैराचर्यते यत् तत् आचीर्णम् । एतद्विपरीतमनाचीर्णम् । पुन चाऽऽचीर्णं देशप्रक्षालनं कारणाद्भवति निष्कारणाद्वा । यत्पुनः कारणे सति भवति तत्पुनदि विधम् , यथा-अशनादिना लेपकद्रव्येण हस्तमात्रं लिप्तम् , तत्प्रक्षालने यदि मणिबन्धतः प्रक्षालयति । एतत्सकारणक देशप्रक्षालनम् । यदि वा-यावन्मानं शरीरावयवरूपं हस्तपादादिकमशुचिद्रव्येण लिप्तं भवति तावन्मात्रमेव प्रक्षालयति । एतदपि सकारणकं देशप्रक्षालनम् । निष्कारणं तु-एतद्विपरीतम् , यथा-अशुचिद्रव्येण चरणमात्रं लिप्तम् किन्तु-प्रक्षालनं तु सपूर्णस्य शरीरस्य करोति । तत्राऽधिकदेशस्य प्रक्षालनमकारणमेव । प्रक्षालयितव्यदेशादधिकदेशप्रक्षालनस्य निष्प्रयोजनवादेतद् अनाचीर्णमिति ॥ सू० २१ ॥
सूत्रम्-जे भिक्खू कसिणाणि चम्माइं धरेइ धरतं वा साइज्जइ । छाया-यो भिक्षुः कृत्स्नानि चर्माणि धरति धरन्तं वा स्वदते ॥ सू० २२ ॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खु यो भिक्षुः 'कसिणाणि' कृत्स्नानि संपूर्णानि अखण्डानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् 'धरेइ' धरति-पार्श्वे स्थापयति, उपयोगे आनयति वा, 'धरेतं वा साइजइ' धरन्तं-पार्श्वे स्थापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागभवति ।। सू० २२ ॥ भाष्यम्-कसिणं चउहा वुत्तं, सयलाइपभेयो ।
चउन्विहस्स चम्मस्स, धारणं नेव कप्पइ ।।