________________
चूर्णिभाष्यावचूरिः उ०२ सू० २०-२२ अदत्तादान-हस्तादिप्रक्षालन-चर्मधारणनिषेधः ४३
सूत्रम्-जे भिक्खू लहुस्सगं अदत्तमादियइ आदियंतं वा साइज्जइ ॥ सू० २०॥
छाया-यो भिक्षुर्लघुस्वकमदत्तमाददाति आदतं वा स्वदते ॥ सू० २०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सगं' लघुस्वकम् स्वल्पमपि, अदत्तं तत्स्वामिनाऽप्रदीयमानम् 'आदियइ' आददाति--गृह्णाति, 'आदियंतं वा' आददतं वा स्वदते- स्तोकमपि--अदत्तादानं कुर्वन्तं श्रमणमनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० २० ॥ भाप्यम्-दव्वे खेत्ते तहा काले, भावे चेयं चउन्विहं ।
___एएसिं च जहासत्थं, णाणतं अवगम्मइ ॥ छाया-दवे क्षेत्रे तथा काले भावे चैतच्चतुर्विधम् ।
एतेषां च यथाशास्त्रं नानात्वमवगम्यते ॥ अवचूरी-'दव्ये' इत्यादि । मदत्तम् अदत्तादानं चतुर्विधम्-द्रव्यक्षेत्रकालभावैः चतुष्प्र. कारकं भवति । तत्र द्रव्ये-वनपात्रादौ. क्षेत्रे -वसत्यादौ, काले-अतीतादौ, भावे--भावविषयेरागादौ । एतेषां द्रव्यादिविषयकादत्तादानानां नानात्वम्-अवान्तरभेदो यथाशास्त्रं शास्त्रोक्तप्रकारेणाऽवगम्यते-बुध्यते ।। सू० २० ॥
सूत्रम्-जे भिक्खू लहुस्सएण सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पायाणि वा कण्णाणि वा अच्छीणि वा दंताणि वा नहाणि वा मुहं वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ।। सू०२१॥ ' - छाया-यो भिक्षुर्लधुस्वकेन शीतोदकविकटेन वा-उण्णोदकविकटेन वा हस्तौ वा पादौ चा कर्णों वा अक्षिणी बा दन्तान् वा नखान् वा मुखं वा, उच्छोलेद्वा प्रधावेद्वा उच्छोलन्तं वा प्रधावन्तं वा स्वदते ॥ सू० २१ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सएण' लघुस्वकेन-स्वल्पेन विन्दुमात्रेणाऽपि 'सीओदगवियडेण वा' शीतोदकविकटेन वा, अत्र विकटशब्दोऽचित्तवोधकः, व्यपगतजीवेन' जलेनेत्यर्थः, तण्डुलधावनाद्यचित्तजलेनेति यावत् । 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा अचित्तेनोप्णजलेनेत्यर्थः । तथा चोपर्युक्तजलेन भिक्षुः 'हत्याणि वा हस्तौ वा 'पायाणि वा' पादौ वा 'कण्णाणि वा' कर्णौ वा 'अच्छीणि वा' अक्षिणी वानेत्रे वा 'दंताणि वा' दन्तान् वा 'नहाणि वा' नखान् वा 'मुहं वा' मुखं वा 'उच्छोलेज्ज