________________
निशीथस्वे छाया--यो भिक्षुः सौत्रि या रज्जुकं वा चिलमिलि स्वयमेवः करोति कुर्वन्त वा स्वदते ॥ सू० १३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा सौत्रिकी कार्पाससूत्रोर्णासूत्रसम्पादितां वा, रज्जुकां वा कार्पासादिसूत्रनिर्मितदवरिकासंपादितजालिकासम्पन्नां वा चिलिमिली आच्छादनपटरूपां स्वयं करोति अन्यद्वारा वा कारयति कुर्वन्तं वाऽन्य' श्रमण: मनुमोदते सः प्रायश्चित्तभागी भवति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू सूईए उत्तरकरणं सयमेव करेइ करेंत वा साइज्जइ। छाया-यो भिक्षुः सूच्या उत्तरकरण स्वयमेव करोति कुर्वन्तं वा स्वदते । सू०१४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे मिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'सूईए' सूच्याः उत्तरकरणं, तत् पञ्चविधं भवति, तथाहि-छिद्रवर्धनम् १, श्लक्षणकरणम् २, तीक्ष्णकरणम् ३, लोहंकारालायां गत्वा तापनम् ' ४, ऋजुकरणं ५ चेति । एतत् पञ्चविधमप्युत्तरकरणं सूच्या स्वयं साधुः साध्वी वा करोति कुर्वन्तं वाऽन्यं श्रमणमर्नुमोदते स'दोपभोग भवतीति । सू० १४ ॥
सूत्रम्-एवं पिप्पलगस्स उत्तरकरणम्।। सू० १५॥णहच्छेयणगस्स उत्तरकरणम् ।। सू० १६ ॥ कण्णेसोहणगस्स उत्तरकरणम् ।। सू०१७॥
छाया-एवं पिप्पलकस्योत्तरकरणम् ॥ सू6 १५ ॥ नखच्छेदनकस्योत्तरकरणम् । सू० १६॥ कर्णशोधनकस्योत्तरकरणम्। सू० १७॥
चूर्णी-चिलिमिलिकामारभ्य कर्णशोधनकपर्यन्तं पञ्चसूत्री प्रथमोद्देशे कथिता मत्र पुनः सैव कथ्यते, तत्र को हेतुरिति चेत् अत्रोच्यते-तत्राऽन्यतीर्थिकद्वारा गृहस्थद्वारा वा करणं कारणं कुर्वतोऽनुमोदन च निषिद्धम् , अत्र तु-स्वयं करणं कुर्वतोऽनुमोदनं च निषिध्यते । एतावान् भेदोऽतो न पुनरुक्तिः व्याख्या सुगमा || सू० १७ ॥
सूत्रम्-जे भिक्खू लहुस्सगं फरुसं-वयइ वयंतं वा साइज्जइ॥१८॥ छाया-यो भिक्षुः लघुस्वकं परुपं वदति वदन्तं वा स्वदते ॥ सू०१८॥
चर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'लहुस्संग फरुसं। लघुस्वक परुपम् ईपदपि कठोरं वचनम् 'वयइ' वदति- 'वयंत वा साइज्जई' वदन्तं वा स्वदतेऽनुमोदने स स्नेहवर्जितकठोरवचनवक्ता प्रायश्चित्तभार भापासमिति विराधयति ॥ सू०१८॥ भाष्यम्-फरसं चउहा णेयं; दवे खेत्ते य कालगे।
भावे जहक्कम चोच्छं, जहासत्थं वियारियं ॥ छाया--परुपं चतुर्धा शेय, द्रव्ये क्षेत्रे च कालके ।
भावे यथाक्रमं वक्ष्ये, यथाशास्त्रं विचारितम् ॥