________________
चूर्णिभाज्यावचूरिः उ० २ सू० ९-१०
गन्धाघ्राणपदमार्गादिनिरूपणम् ३७ अवचूरि:-'अचित्ते' इत्यादि । अचित्ते द्रव्यजाते शुष्कचन्दनकाष्ठादौ यत्र तत्र वाsन्यत्र गन्धजातं यत्किञ्चित्प्रकारकं सुगन्धजातं. प्रवर्तते, तस्य गन्धजातस्याऽऽघ्राणं द्विविधम्-द्विप्रकारकं भवति-संबद्धम् , तथा तदितरत् तद्भिन्नम् असम्बद्धम् ।।
अयं भावः-अचित्ते द्रव्ये यो गन्धस्तिष्ठति सोऽचित्तद्रव्यप्रतिष्ठितो गंधो यथा शुष्कचन्दनकाष्ठादौ, अन्यत्र वा तैलादौ वर्तमानः, तस्य गन्धस्याऽऽघ्राणं दिप्रकारकम् यथा-नासाग्रसंवद्धस्य नासामाऽसंबद्धस्य च, अथवा चन्दनकाष्ठादिस्थितस्य, ततः पृथक्कृतस्य तैलनिर्यासादिरूपस्य वा आघ्राणम् । तद् यथा-कश्चिन्नासापुटसंलग्नं कृत्वा जिघ्रति, कश्चिन्नासातो दूरेऽवस्थित चायुद्वारा समागतं वा, अथवा संबद्धं चन्दनकाष्ठादिस्थितम् , असंबद्धं तत्पृथकूकृतं तैलनिर्यासादिरूपं वा यो यतिः-मुनिः जिघ्रति तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथाहि-तीर्थकराज्ञां समुल्लङ्घयति, मिथ्यात्वं च प्राप्नोति तत्र संयमात्मविराधनासद्भावात् । तत्र संयमविराधनाइत्थम्-नासिकानिःसृतसुगन्धनिःश्वासेन वायुकायगतजीवानां विराधनं भवतिः। आत्मविराधनं यथा-तस्मिन् गन्धे यदि विपं भवेत् , तदा तदाघ्राणे आत्मविराधनमपि संभवति । यथा-सुगन्धितद्रव्यलोलुपाः समागताः सर्पादयो दंशनं कुर्युः। सचित्तप्रतिष्ठितगन्धाऽऽत्राणं तु प्रथमोद्देशे एकादशे सूत्रे निषिद्धमेव, इति ॥ सू० ९॥
सूत्रम्-जे भिक्खू पदमग्गं वा संकमंवा आलंवणं वा सयमेव करेइ करेंतं वा साइज्जइ ।। सू० १०॥
-छाया-यो भिक्षुः पदमार्ग वा संक्रम:वा-आलम्बनं वा स्वयमेव करोति कुर्वन्तं वा स्वदते ॥ सू० १०॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पदमग्गं वा' पदमार्गपदमार्गः-पादस्थापनार्थ मृत्तिकादि प्रक्षिप्य गमनागमनार्थ मार्गः क्रियते तम्, स सोपानमिति कथ्यते । पदमार्गादित्रयाणामपि पदानां विस्तरतोऽथ करिष्यति भाष्यकारः । संकम वा' संक्रम-वा, -संक्रमः . कर्दमाद्युल्लद्धनाथ काष्ठेष्टिकादिस्थापनरूपस्तम् । 'आलंवणं वा' मालम्बनं वा, आल. म्बनम्-यदालम्ब्य कर्दमग दिकमुल्लवयते तत् मुञ्जशणादिनिर्मितरन्जुरूपं, तत् 'सयमेव करेई' स्वयमेव करोति । अन्यतीथिंकगृहस्थैः कारितपदमार्गादीनां निषेधः प्रथमोद्देशे गतः, अतोऽत्र 'स्वयमेव' इति प्रोकम् , एवमग्रेऽपि बोध्यम् । 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते तस्याज्ञाभङ्गादिका दोषा - भवन्ति ॥ सू० १० ॥ भाप्यम् --पदमग्गो संकमो य, आलंवण तहेव य.।
. तिविहंपि करे मिक्खू, 'आणाभंगाइ पावई ॥