________________
चूर्णि भाष्यावचूरिः उ० २ ० १८-१९
परुषवाद - मृषावादनिषेधः ४१
तथा - भावे
अवचूरिः--'फरुसं' इत्यादि । परुष कर्कशं वचनं चतुर्विधम् चतुष्प्रकारकं ज्ञेयं भवतीति ज्ञातव्यम् । द्रव्ये - द्रव्यविपये, क्षेत्रे - क्षेत्रविषये च, तथा - काले-कालविषये, भावविषये, परुषवचनस्यैतेषु विषयेषु चातुर्विध्यं यथाशास्त्रम् - शास्त्रप्रकारमनतिक्रम्य विचारितं तीर्थकर गणधरैः कथितं तद् यथाक्रमं वक्ष्ये कथयिष्यामि इति ॥ सू० १८ ॥ पुनर्भाष्यकारः पूर्वोक्तपरुषस्य द्रव्यादिभेदान् विशदयति-- 'दव्वे ' इत्यादि । भाष्यम् - दव्वे वत्यम्मि पत्तम्मि, खेत्ते संधारयाइनु ।
काले तीesणागए य, भावे कोहाइ संमयं ।।
छाया - - द्रव्ये वस्त्रे पात्रे क्षेत्रे संस्तारकादिषु ।
कालेऽतीतेऽनागते च भावे क्रोधादि संमतम् ॥
अवचूरिः - द्रव्ये - द्रव्यविषये - वस्त्रपात्रादिपु, यहा जीवादिपु द्रव्येषु परुषवचनं भवति । तद्यथा - वस्त्र - पात्र - सूच्यादिपु - आत्मन एतान् - अपश्यन् एवं भणति ममैव विद्यते - इति कृत्वा ईर्ष्याभावेन वदति - ' ममासने को निद्रां लभते ?' पुनश्च ईर्ष्याभावेन 'मम वस्त्रादि तेन हृतम्' इत्येवं द्रव्यतो लघुस्वकं परूपं भापते १ ।
क्षेत्रे संस्तारका दिपु क्षेत्रतः परुषमेवं भवति यथा - कश्चित्साधुः स्वकीयस्य संस्तारशय्यावसतिषु पुरुषान्तरमुपविष्टं दृष्ट्वा वदति - को मम संस्तारादिपु स्थितः स्वकीयं जानानः ? | अथवा — स्वकीयासने उपविष्टं कमपि साधुं दृष्ट्वा वदति - कथं मम संस्तारके स्थितोऽसीति २ ।
काले यथा -- कमपि साधु बहिर्गन्तुमनसमुत्तिष्ठन्तं ब्रवीति - नेदानीं गमनस्य कालो विद्यते केन मूर्खेण कथितं यत् - इदानीं गमनकालः । यद्वा-गमनकाले उपस्थिते दुर्योधा एते साधवः इदानीमपि विलम्बते इति । यद्वा-यस्य स्वाध्यायादेर्यः कालस्तस्मिन् कश्चित् स्वाध्यायादिकं कर्तुं व्यवसितः, त प्रति वदति - नेदानीं कालो विद्यते स्वाध्यायस्य तत्र यदि कश्चिक्कि - ञ्चिदुत्तरं ददाति तदा भोः अभिमानिन् ! किं निरर्थकं वदसि ? इति परुपं ब्रूते । अथवा - आचार्येण पूर्वमादिष्टे औषधानयने अन्यस्तत्र गन्तुकामं साधुं पृच्छति - यत् त्वं गच्छसि औषधमानेतुम् ?, स पृष्टः साधुः परुपाक्षरं ब्रूते-नेदानीमौषधानयनकालो विद्यते धैर्य धारय, कथमेवं त्वरां कुरुषे ? । यद्वा- - कश्चित्साधुर्वस्त्रपात्रादिकमानेतुं गुरुणाऽऽज्ञप्तः तेनाssनीतं वस्त्रपात्रादिकम्, तद्दृष्ट्वा - ईर्ष्यालु - रन्यो वदति-केनैतदानीतम् ! स वदति - मयाऽऽनीतम् । तत् श्रुत्वा - ईर्ष्यालुनाऽनादरं कुर्वतोक्तम्भोः किमर्थं त्वमानेष्यसि, नायं कालो वस्त्राद्यानयनस्य त्वं तु काष्ठपापाणवज्जडो लब्धिरहितश्च । एवं प्रकारेण कालविषये परुषं वदति - इति ३ ।
भावे, परुषं क्रोधादिकम्, यतः क्रोधलोभादिमन्तरेण द्रव्यादिष्वपि परुषं न संभवति, क्रोधादि - मूलकतयैव सर्वत्र परूपवचनस्य संभवः ।