________________
चूणिभाष्यावचूरिः ॐ० २ ० ४-८
दारुदण्डकपादप्रोञ्छनप्रकरणम् ३५
छाया -यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं धरति धरन्तं वा स्वदते ॥ सू० ३ ॥ चूर्णी - 'घरेइ' धरति धारणं करोति घरन्तं वाऽनुमोदते । अन्यत्सुगमम् ॥ सू० ३॥ सूत्रम् - जे भिक्खू दारुदंडयं पायपुंछणं वियरइ वियरंतं वा साइज्जइ ४
छाया - यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं वितरति वितरन्तं वा स्वदते ॥ सू०४ ॥ चूर्णी - 'वियरइ' वितरति तत्र - वितरणं अन्यस्मै दानम् । अन्यत्सुगमम् || सू० ४ ॥ सूत्रम् - जे भिक्खू दारुदंडयं पायपुंछणं परिभाएइ परिभाएंतं वा साइज्जइ || सू० ५ ॥
छाया -यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं परिभाजयति परिभाजयन्तं वा स्वदते ॥५॥ चूर्णी - यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं 'परिभाएइ' परिभाजयति-स्वार्थे णिच् विभजति, विभजनं- विभागकरणम् 'परिभाएंतं वा' परिभाजयन्तं वा विभजन्तं वाऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५ ॥
सूत्रम् - जे भिक्खू दारुदंडयं पायपुंछणं परिभुंजइ परिभुजंतं वा सांई - ज्जइ ॥ सू० ६ ॥
छाया -यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं परिभुङ्क्ते परिभुञ्जन्तं वा स्वदते ॥ ६ ॥
--
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं रजोहरणम् 'परिभुजइ' परिभुङ्क्ते, तत्र - परिभोगः परिभुञ्जनम् तादृशरजोहरणेन प्रमार्जनादिकार्य - संपादनम् । तथा-'परिभुजंतं वा साइज्जइ' परिभुञ्जन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवतीति ॥ सू० ६ ॥
सूत्रम् - जे भिक्खू दारुदंडयं पायपुंछणं परं दिवड्डाआ मासाओ धरेइधरेंतं वा साइज्जइ ॥ सू० ७ ॥
छाया -यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं परं द्वयर्थात् मासात् धरति धरन्तं वा स्वदते ॥ सू० ७ ॥
चूर्णी - 'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'दारुदंडयं' दारुदण्डकम् 'पाय पुंछणं पादप्रोञ्छनम् - वस्त्रवेष्टनरहितदा रुदण्डयुक्त रजोहरणम् कदाचित् - वस्त्राभावात् आगाढभयात्, अग्निदाहात्, राजप्रद्वेषाद्, अशिवादिकारणात्, तादृशोन्मादादिदोषग्रस्त शिष्योपसर्गाद्वा, इत्यादिकारणवशाद् यदि धारयेत् तदापि तत् सार्द्धमासपर्यन्तं धारयेत् । ततः परं दिव